Ṛk 9.36.1
Saṃhitā
अस॑र्जि॒ रथ्यो॑ यथा प॒वित्रे॑ च॒म्वोः॑ सु॒तः ।
कार्ष्म॑न्वा॒जी न्य॑क्रमीत् ॥
असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः |
कार्ष्मन् वाजी न्य् अक्रमीत् ||
ásarji ráthyo yathā pavítre camvóḥ sutáḥ ǀ
kā́rṣmanvājī́ nyákramīt ǁ
asarji rathyo yathā pavitre camvoḥ sutaḥ |
kārṣman vājī ny akramīt ||
Padapāṭha
अस॑र्जि । रथ्यः॑ । य॒था॒ । प॒वित्रे॑ । च॒म्वोः॑ । सु॒तः ।
कार्ष्म॑न् । वा॒जी । नि । अ॒क्र॒मी॒त् ॥
असर्जि । रथ्यः । यथा । पवित्रे । चम्वोः । सुतः ।
कार्ष्मन् । वाजी । नि । अक्रमीत् ॥
ásarji ǀ ráthyaḥ ǀ yathā ǀ pavítre ǀ camvóḥ ǀ sutáḥ ǀ
kā́rṣman ǀ vājī́ ǀ ní ǀ akramīt ǁ
asarji ǀ rathyaḥ ǀ yathā ǀ pavitre ǀ camvoḥ ǀ sutaḥ ǀ
kārṣman ǀ vājī ǀ ni ǀ akramīt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.036.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.8.26.01
- Maṇḍala · Anuvāka · Ṛk
- 09.02.067
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Prabhūvasu Āṅgirasa
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.