Ṛk 9.38.5
Saṃhitā
ए॒ष स्य मद्यो॒ रसोऽव॑ चष्टे दि॒वः शिशुः॑ ।
य इंदु॒र्वार॒मावि॑शत् ॥
एष स्य मद्यो रसो ऽव चष्टे दिवः शिशुः |
य इन्दुर् वारम् आविशत् ||
eṣá syá mádyo rásó’va caṣṭe diváḥ śíśuḥ ǀ
yá índurvā́ramā́viśat ǁ
eṣa sya madyo raso 'va caṣṭe divaḥ śiśuḥ |
ya indur vāram āviśat ||
Padapāṭha
ए॒षः । स्यः । मद्यः॑ । रसः॑ । अव॑ । च॒ष्टे॒ । दि॒वः । शिशुः॑ ।
यः । इन्दुः॑ । वार॑म् । आ । अवि॑शत् ॥
एषः । स्यः । मद्यः । रसः । अव । चष्टे । दिवः । शिशुः ।
यः । इन्दुः । वारम् । आ । अविशत् ॥
eṣáḥ ǀ syáḥ ǀ mádyaḥ ǀ rásaḥ ǀ áva ǀ caṣṭe ǀ diváḥ ǀ śíśuḥ ǀ
yáḥ ǀ índuḥ ǀ vā́ram ǀ ā́ ǀ áviśat ǁ
eṣaḥ ǀ syaḥ ǀ madyaḥ ǀ rasaḥ ǀ ava ǀ caṣṭe ǀ divaḥ ǀ śiśuḥ ǀ
yaḥ ǀ induḥ ǀ vāram ǀ ā ǀ aviśat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.038.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.8.28.05
- Maṇḍala · Anuvāka · Ṛk
- 09.02.083
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Rahūgaṇa Āṅgirasa
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.