Ṛk 9.49.1
Saṃhitā
पव॑स्व वृ॒ष्टिमा सु नो॒ऽपामू॒र्मिं दि॒वस्परि॑ ।
अ॒य॒क्ष्मा बृ॑ह॒तीरिषः॑ ॥
पवस्व वृष्टिम् आ सु नो ऽपाम् ऊर्मिं दिवस् परि |
अयक्ष्मा बृहतीर् इषः ||
pávasva vṛṣṭímā́ sú no’pā́mūrmím diváspári ǀ
ayakṣmā́ bṛhatī́ríṣaḥ ǁ
pavasva vṛṣṭim ā su no 'pām ūrmiṃ divas pari |
ayakṣmā bṛhatīr iṣaḥ ||
Padapāṭha
पव॑स्व । वृ॒ष्टिम् । आ । सु । नः॒ । अ॒पाम् । ऊ॒र्मिम् । दि॒वः । परि॑ ।
अ॒य॒क्ष्माः । बृ॒ह॒तीः । इषः॑ ॥
पवस्व । वृष्टिम् । आ । सु । नः । अपाम् । ऊर्मिम् । दिवः । परि ।
अयक्ष्माः । बृहतीः । इषः ॥
pávasva ǀ vṛṣṭím ǀ ā́ ǀ sú ǀ naḥ ǀ apā́m ǀ ūrmím ǀ diváḥ ǀ pári ǀ
ayakṣmā́ḥ ǀ bṛhatī́ḥ ǀ íṣaḥ ǁ
pavasva ǀ vṛṣṭim ǀ ā ǀ su ǀ naḥ ǀ apām ǀ ūrmim ǀ divaḥ ǀ pari ǀ
ayakṣmāḥ ǀ bṛhatīḥ ǀ iṣaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.049.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.1.06.01
- Maṇḍala · Anuvāka · Ṛk
- 09.02.143
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Kavi Bhārgava
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.