Ṛgveda · Maṇḍala 7 · Sūkta 66

Ṛk 7.66.18

Mitra, Varuṇa · Aryaman, Bhaga, Mitra, Savitṛ · Ādityās · Aryaman, Mitra, Varuṇa · Sūrya · Vasiṣṭha Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

दि॒वो धाम॑भिर्वरुण मि॒त्रश्चा या॑तम॒द्रुहा॑ ।
पिब॑तं॒ सोम॑मातु॒जी ॥

दिवो धामभिर् वरुण मित्रश् चा यातम् अद्रुहा |
पिबतं सोमम् आतुजी ||

divó dhā́mabhirvaruṇa mitráścā́ yātamadrúhā ǀ
píbatam sómamātujī́ ǁ

divo dhāmabhir varuṇa mitraś cā yātam adruhā |
pibataṃ somam ātujī ||

Padapāṭha

दि॒वः । धाम॑ऽभिः । व॒रु॒ण॒ । मि॒त्रः । च॒ । आ । या॒त॒म् । अ॒द्रुहा॑ ।
पिब॑तम् । सोम॑म् । आ॒तु॒जी इत्या॑ऽतु॒जी ॥

दिवः । धामऽभिः । वरुण । मित्रः । च । आ । यातम् । अद्रुहा ।
पिबतम् । सोमम् । आतुजी इत्याऽतुजी ॥

diváḥ ǀ dhā́ma-bhiḥ ǀ varuṇa ǀ mitráḥ ǀ ca ǀ ā́ ǀ yātam ǀ adrúhā ǀ
píbatam ǀ sómam ǀ ātujī́ ítyā-tujī́ ǁ

divaḥ ǀ dhāma-bhiḥ ǀ varuṇa ǀ mitraḥ ǀ ca ǀ ā ǀ yātam ǀ adruhā ǀ
pibatam ǀ somam ǀ ātujī ityā-tujī ǁ

References

Maṇḍala · Sūkta · Ṛk
07.066.18
Aṣṭaka · Adhyāya · Varga · Ṛk
5.5.11.03
Maṇḍala · Anuvāka · Ṛk
07.04.109
Devatā देवता
1-3, 9, 17-19: Mitra, Varuṇa; 4: Aryaman, Bhaga, Mitra, Savitṛ; 5, 6, 8, 10, 13: Ādityās; 7, 11, 12: Aryaman, Mitra, Varuṇa; 14-16: Sūrya
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Gāyatrī, Bṛhatī, Satobṛhatī, Pura-Uṣṇih
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.66.18

Interpretations

Sāyaṇa

हे वरुण त्वं मित्रश्च अद्रुहा अद्रोग्धारौ युवां दितोद्युलोकसबन्धिभ्योधामभिः धामभ्यः स्थानेभ्यः पञ्चम्यर्थेतृतीया अथवा धामभिस्ते- जोभिः विभूतिभिः सार्धं आयातं अस्मद्यज्ञमागच्छतम् आगत्य च आतुजी शत्रूणां सर्वतोहिंसकौ आदातारौ वा धनानां । एवं रूपौ सन्तौ सोमं पिबतम् । तुजि पिजि हिंसाबलादाननिकेतनेपु अत्र हिंसायां आदाने वा वर्तते ॥ १८ ॥