Ṛgveda · Maṇḍala 9 · Sūkta 30

Ṛk 9.30.6

Soma Pavamāna · Bindu Āṅgirasa

The whole sūkta Link

Saṃhitā

सु॒नोता॒ मधु॑मत्तमं॒ सोम॒मिंद्रा॑य व॒ज्रिणे॑ ।
चारुं॒ शर्धा॑य मत्स॒रं ॥

सुनोता मधुमत्तमं सोमम् इन्द्राय वज्रिणे |
चारुं शर्धाय मत्सरम् ||

sunótā mádhumattamam sómamíndrāya vajríṇe ǀ
cā́rum śárdhāya matsarám ǁ

sunotā madhumattamaṃ somam indrāya vajriṇe |
cāruṃ śardhāya matsaram ||

Padapāṭha

सु॒नोत॑ । मधु॑मत्ऽतमम् । सोम॑म् । इन्द्रा॑य । व॒ज्रिणे॑ ।
चारु॑म् । शर्धा॑य । म॒त्स॒रम् ॥

सुनोत । मधुमत्ऽतमम् । सोमम् । इन्द्राय । वज्रिणे ।
चारुम् । शर्धाय । मत्सरम् ॥

sunóta ǀ mádhumat-tamam ǀ sómam ǀ índrāya ǀ vajríṇe ǀ
cā́rum ǀ śárdhāya ǀ matsarám ǁ

sunota ǀ madhumat-tamam ǀ somam ǀ indrāya ǀ vajriṇe ǀ
cārum ǀ śardhāya ǀ matsaram ǁ

References

Maṇḍala · Sūkta · Ṛk
09.030.06
Aṣṭaka · Adhyāya · Varga · Ṛk
6.8.20.06
Maṇḍala · Anuvāka · Ṛk
09.02.036
Devatā देवता
Soma Pavamāna
Ṛṣi ऋषि
Bindu Āṅgirasa
Chandas छन्दस्
Gāyatrī
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 9.30.6

Interpretations

Sāyaṇa

हे ऋत्विजोयूयं मधुमत्तमं मधुररसोपेतं सोमं इन्द्राय वज्रिणे वज्रयुक्ताय सुनोत सुमुत । पुनःकीदृशं चारुं चरणीयं मत्सरं मदकरं रार्धायास्माकं बलाय इन्द्रस्य पानायच सोमं सुनुतेतिषूते यजमानः स्वीयान् ॥ ६ ॥ प्रसोमासइति षळृचं सप्तमं सूक्तं राहूगणस्य गोतमस्यार्षं सौम्यं गायत्रं । प्रसोमासोगोतमइत्यनुक्रान्तं । गतोविनियोगः ।