Ṛk 9.44.6
Saṃhitā
स नो॑ अ॒द्य वसु॑त्तये क्रतु॒विद्गा॑तु॒वित्त॑मः ।
वाजं॑ जेषि॒ श्रवो॑ बृ॒हत् ॥
स नो अद्य वसुत्तये क्रतुविद् गातुवित्तमः |
वाजं जेषि श्रवो बृहत् ||
sá no adyá vásuttaye kratuvídgātuvíttamaḥ ǀ
vā́jam jeṣi śrávo bṛhát ǁ
sa no adya vasuttaye kratuvid gātuvittamaḥ |
vājaṃ jeṣi śravo bṛhat ||
Padapāṭha
सः । नः॒ । अ॒द्य । वसु॑त्तये । क्र॒तु॒ऽवित् । गा॒तु॒वित्ऽत॑मः ।
वाज॑म् । जे॒षि॒ । श्रवः॑ । बृ॒हत् ॥
सः । नः । अद्य । वसुत्तये । क्रतुऽवित् । गातुवित्ऽतमः ।
वाजम् । जेषि । श्रवः । बृहत् ॥
sáḥ ǀ naḥ ǀ adyá ǀ vásuttaye ǀ kratu-vít ǀ gātuvít-tamaḥ ǀ
vā́jam ǀ jeṣi ǀ śrávaḥ ǀ bṛhát ǁ
saḥ ǀ naḥ ǀ adya ǀ vasuttaye ǀ kratu-vit ǀ gātuvit-tamaḥ ǀ
vājam ǀ jeṣi ǀ śravaḥ ǀ bṛhat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.044.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.1.01.06
- Maṇḍala · Anuvāka · Ṛk
- 09.02.120
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Ayāsya Āṅgirasa
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.