Ṛk 8.60.15
Saṃhitā
शेषे॒ वने॑षु मा॒त्रोः सं त्वा॒ मर्ता॑स इंधते ।
अतं॑द्रो ह॒व्या व॑हसि हवि॒ष्कृत॒ आदिद्दे॒वेषु॑ राजसि ॥
शेषे वनेषु मात्रोः सं त्वा मर्तास इन्धते |
अतन्द्रो हव्या वहसि हविष्कृत आद् इद् देवेषु राजसि ||
śéṣe váneṣu mātróḥ sám tvā mártāsa indhate ǀ
átandro havyā́ vahasi haviṣkṛ́ta ā́díddevéṣu rājasi ǁ
śeṣe vaneṣu mātroḥ saṃ tvā martāsa indhate |
atandro havyā vahasi haviṣkṛta ād id deveṣu rājasi ||
Padapāṭha
शेषे॑ । वने॑षु । मा॒त्रोः । सम् । त्वा॒ । मर्ता॑सः । इ॒न्ध॒ते॒ ।
अत॑न्द्रः । ह॒व्या । व॒ह॒सि॒ । ह॒विः॒ऽकृतः॑ । आत् । इत् । दे॒वेषु॑ । रा॒ज॒सि॒ ॥
शेषे । वनेषु । मात्रोः । सम् । त्वा । मर्तासः । इन्धते ।
अतन्द्रः । हव्या । वहसि । हविःऽकृतः । आत् । इत् । देवेषु । राजसि ॥
śéṣe ǀ váneṣu ǀ mātróḥ ǀ sám ǀ tvā ǀ mártāsaḥ ǀ indhate ǀ
átandraḥ ǀ havyā́ ǀ vahasi ǀ haviḥ-kṛ́taḥ ǀ ā́t ǀ ít ǀ devéṣu ǀ rājasi ǁ
śeṣe ǀ vaneṣu ǀ mātroḥ ǀ sam ǀ tvā ǀ martāsaḥ ǀ indhate ǀ
atandraḥ ǀ havyā ǀ vahasi ǀ haviḥ-kṛtaḥ ǀ āt ǀ it ǀ deveṣu ǀ rājasi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.060.15
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.34.05
- Maṇḍala · Anuvāka · Ṛk
- 08.07.015
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharga Pragātha
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.