Ṛk 8.60.7
Saṃhitā
यथा॑ चिद्वृ॒द्धम॑त॒समग्ने॑ सं॒जूर्व॑सि॒ क्षमि॑ ।
ए॒वा द॑ह मित्रमहो॒ यो अ॑स्म॒ध्रुग्दु॒र्मन्मा॒ कश्च॒ वेन॑ति ॥
यथा चिद् वृद्धम् अतसम् अग्ने संजूर्वसि क्षमि |
एवा दह मित्रमहो यो अस्मध्रुग् दुर्मन्मा कश् च वेनति ||
yáthā cidvṛddhámatasámágne saṃjū́rvasi kṣámi ǀ
evā́ daha mitramaho yó asmadhrúgdurmánmā káśca vénati ǁ
yathā cid vṛddham atasam agne saṃjūrvasi kṣami |
evā daha mitramaho yo asmadhrug durmanmā kaś ca venati ||
Padapāṭha
यथा॑ । चि॒त् । वृ॒द्धम् । अ॒त॒सम् । अग्ने॑ । स॒म्ऽजूर्व॑सि । क्षमि॑ ।
ए॒व । द॒ह॒ । मि॒त्र॒ऽम॒हः॒ । यः । अ॒स्म॒ऽध्रुक् । दुः॒ऽमन्मा॑ । कः । च॒ । वेन॑ति ॥
यथा । चित् । वृद्धम् । अतसम् । अग्ने । सम्ऽजूर्वसि । क्षमि ।
एव । दह । मित्रऽमहः । यः । अस्मऽध्रुक् । दुःऽमन्मा । कः । च । वेनति ॥
yáthā ǀ cit ǀ vṛddhám ǀ atasám ǀ ágne ǀ sam-jū́rvasi ǀ kṣámi ǀ
evá ǀ daha ǀ mitra-mahaḥ ǀ yáḥ ǀ asma-dhrúk ǀ duḥ-mánmā ǀ káḥ ǀ ca ǀ vénati ǁ
yathā ǀ cit ǀ vṛddham ǀ atasam ǀ agne ǀ sam-jūrvasi ǀ kṣami ǀ
eva ǀ daha ǀ mitra-mahaḥ ǀ yaḥ ǀ asma-dhruk ǀ duḥ-manmā ǀ kaḥ ǀ ca ǀ venati ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.060.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.33.02
- Maṇḍala · Anuvāka · Ṛk
- 08.07.007
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharga Pragātha
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.