Ṛk 8.60.2
Saṃhitā
अच्छा॒ हि त्वा॑ सहसः सूनो अंगिरः॒ स्रुच॒श्चरं॑त्यध्व॒रे ।
ऊ॒र्जो नपा॑तं घृ॒तके॑शमीमहे॒ऽग्निं य॒ज्ञेषु॑ पू॒र्व्यं ॥
अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश् चरन्त्य् अध्वरे |
ऊर्जो नपातं घृतकेशम् ईमहे ऽग्निं यज्ञेषु पूर्व्यम् ||
ácchā hí tvā sahasaḥ sūno aṅgiraḥ srúcaścárantyadhvaré ǀ
ūrjó nápātam ghṛtákeśamīmahe’gním yajñéṣu pūrvyám ǁ
acchā hi tvā sahasaḥ sūno aṅgiraḥ srucaś caranty adhvare |
ūrjo napātaṃ ghṛtakeśam īmahe 'gniṃ yajñeṣu pūrvyam ||
Padapāṭha
अच्छ॑ । हि । त्वा॒ । स॒ह॒सः॒ । सू॒नो॒ इति॑ । अ॒ङ्गि॒रः॒ । स्रुचः॑ । चर॑न्ति । अ॒ध्व॒रे ।
ऊ॒र्जः । नपा॑तम् । घृ॒तऽके॑शम् । ई॒म॒हे॒ । अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् ॥
अच्छ । हि । त्वा । सहसः । सूनो इति । अङ्गिरः । स्रुचः । चरन्ति । अध्वरे ।
ऊर्जः । नपातम् । घृतऽकेशम् । ईमहे । अग्निम् । यज्ञेषु । पूर्व्यम् ॥
áccha ǀ hí ǀ tvā ǀ sahasaḥ ǀ sūno íti ǀ aṅgiraḥ ǀ srúcaḥ ǀ cáranti ǀ adhvaré ǀ
ūrjáḥ ǀ nápātam ǀ ghṛtá-keśam ǀ īmahe ǀ agním ǀ yajñéṣu ǀ pūrvyám ǁ
accha ǀ hi ǀ tvā ǀ sahasaḥ ǀ sūno iti ǀ aṅgiraḥ ǀ srucaḥ ǀ caranti ǀ adhvare ǀ
ūrjaḥ ǀ napātam ǀ ghṛta-keśam ǀ īmahe ǀ agnim ǀ yajñeṣu ǀ pūrvyam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.060.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.32.02
- Maṇḍala · Anuvāka · Ṛk
- 08.07.002
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharga Pragātha
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.