Ṛk 9.12.5
Saṃhitā
यः सोमः॑ क॒लशे॒ष्वाँ अं॒तः प॒वित्र॒ आहि॑तः ।
तमिंदुः॒ परि॑ षस्वजे ॥
यः सोमः कलशेष्व् आं अन्तः पवित्र आहितः |
तम् इन्दुः परि षस्वजे ||
yáḥ sómaḥ kaláśeṣvā́m̐ antáḥ pavítra ā́hitaḥ ǀ
támínduḥ pári ṣasvaje ǁ
yaḥ somaḥ kalaśeṣv āṃ antaḥ pavitra āhitaḥ |
tam induḥ pari ṣasvaje ||
Padapāṭha
यः । सोमः॑ । क॒लशे॑षु । आ । अ॒न्तरिति॑ । प॒वित्रे॑ । आऽहि॑तः ।
तम् । इन्दुः॑ । परि॑ । स॒स्व॒जे॒ ॥
यः । सोमः । कलशेषु । आ । अन्तरिति । पवित्रे । आऽहितः ।
तम् । इन्दुः । परि । सस्वजे ॥
yáḥ ǀ sómaḥ ǀ kaláśeṣu ǀ ā́ ǀ antáríti ǀ pavítre ǀ ā́-hitaḥ ǀ
tám ǀ índuḥ ǀ pári ǀ sasvaje ǁ
yaḥ ǀ somaḥ ǀ kalaśeṣu ǀ ā ǀ antariti ǀ pavitre ǀ ā-hitaḥ ǀ
tam ǀ induḥ ǀ pari ǀ sasvaje ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.012.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.7.38.05
- Maṇḍala · Anuvāka · Ṛk
- 09.01.110
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Asita Kāśyapa Or Devala Kāśyapa
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.