Ṛk 9.88.2
Saṃhitā
स ईं॒ रथो॒ न भु॑रि॒षाळ॑योजि म॒हः पु॒रूणि॑ सा॒तये॒ वसू॑नि ।
आदीं॒ विश्वा॑ नहु॒ष्या॑णि जा॒ता स्व॑र्षाता॒ वन॑ ऊ॒र्ध्वा न॑वंत ॥
स ईं रथो न भुरिषाऌ अयोजि महः पुरूणि सातये वसूनि |
आद् ईं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ||
sá īm rátho ná bhuriṣā́ḷayoji maháḥ purū́ṇi sātáye vásūni ǀ
ā́dīm víśvā nahuṣyā́ṇi jātā́ svárṣātā vána ūrdhvā́ navanta ǁ
sa īṃ ratho na bhuriṣāḷ ayoji mahaḥ purūṇi sātaye vasūni |
ād īṃ viśvā nahuṣyāṇi jātā svarṣātā vana ūrdhvā navanta ||
Padapāṭha
सः । ई॒मिति॑ । रथः॑ । न । भु॒रि॒षाट् । अ॒यो॒जि॒ । म॒हः । पु॒रूणि॑ । सा॒तये॑ । वसू॑नि ।
आत् । ई॒मिति॑ । विश्वा॑ । न॒हु॒ष्या॑णि । जा॒ता । स्वः॑ऽसाता । वने॑ । ऊ॒र्ध्वा । न॒व॒न्त॒ ॥
सः । ईमिति । रथः । न । भुरिषाट् । अयोजि । महः । पुरूणि । सातये । वसूनि ।
आत् । ईमिति । विश्वा । नहुष्याणि । जाता । स्वःऽसाता । वने । ऊर्ध्वा । नवन्त ॥
sáḥ ǀ īmíti ǀ ráthaḥ ǀ ná ǀ bhuriṣā́ṭ ǀ ayoji ǀ maháḥ ǀ purū́ṇi ǀ sātáye ǀ vásūni ǀ
ā́t ǀ īmíti ǀ víśvā ǀ nahuṣyā́ṇi ǀ jātā́ ǀ sváḥ-sātā ǀ váne ǀ ūrdhvā́ ǀ navanta ǁ
saḥ ǀ īmiti ǀ rathaḥ ǀ na ǀ bhuriṣāṭ ǀ ayoji ǀ mahaḥ ǀ purūṇi ǀ sātaye ǀ vasūni ǀ
āt ǀ īmiti ǀ viśvā ǀ nahuṣyāṇi ǀ jātā ǀ svaḥ-sātā ǀ vane ǀ ūrdhvā ǀ navanta ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.088.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.3.24.02
- Maṇḍala · Anuvāka · Ṛk
- 09.05.059
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Uśanas Kāvya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.