Ṛk 9.88.4
Saṃhitā
इंद्रो॒ न यो म॒हा कर्मा॑णि॒ चक्रि॑र्हं॒ता वृ॒त्राणा॑मसि सोम पू॒र्भित् ।
पै॒द्वो न हि त्वमहि॑नाम्नां हं॒ता विश्व॑स्यासि सोम॒ दस्योः॑ ॥
इन्द्रो न यो महा कर्माणि चक्रिर् हन्ता वृत्राणाम् असि सोम पूर्भित् |
पैद्वो न हि त्वम् अहिनाम्नां हन्ता विश्वस्यासि सोम दस्योः ||
índro ná yó mahā́ kármāṇi cákrirhantā́ vṛtrā́ṇāmasi soma pūrbhít ǀ
paidvó ná hí tvámáhināmnām hantā́ víśvasyāsi soma dásyoḥ ǁ
indro na yo mahā karmāṇi cakrir hantā vṛtrāṇām asi soma pūrbhit |
paidvo na hi tvam ahināmnāṃ hantā viśvasyāsi soma dasyoḥ ||
Padapāṭha
इन्द्रः॑ । न । यः । म॒हा । कर्मा॑णि । चक्रिः॑ । ह॒न्ता । वृ॒त्राणा॑म् । अ॒सि॒ । सो॒म॒ । पूः॒ऽभित् ।
पै॒द्वः । न । हि । त्वम् । अहि॑ऽनाम्नाम् । ह॒न्ता । विश्व॑स्य । अ॒सि॒ । सो॒म॒ । दस्योः॑ ॥
इन्द्रः । न । यः । महा । कर्माणि । चक्रिः । हन्ता । वृत्राणाम् । असि । सोम । पूःऽभित् ।
पैद्वः । न । हि । त्वम् । अहिऽनाम्नाम् । हन्ता । विश्वस्य । असि । सोम । दस्योः ॥
índraḥ ǀ ná ǀ yáḥ ǀ mahā́ ǀ kármāṇi ǀ cákriḥ ǀ hantā́ ǀ vṛtrā́ṇām ǀ asi ǀ soma ǀ pūḥ-bhít ǀ
paidváḥ ǀ ná ǀ hí ǀ tvám ǀ áhi-nāmnām ǀ hantā́ ǀ víśvasya ǀ asi ǀ soma ǀ dásyoḥ ǁ
indraḥ ǀ na ǀ yaḥ ǀ mahā ǀ karmāṇi ǀ cakriḥ ǀ hantā ǀ vṛtrāṇām ǀ asi ǀ soma ǀ pūḥ-bhit ǀ
paidvaḥ ǀ na ǀ hi ǀ tvam ǀ ahi-nāmnām ǀ hantā ǀ viśvasya ǀ asi ǀ soma ǀ dasyoḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.088.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.3.24.04
- Maṇḍala · Anuvāka · Ṛk
- 09.05.061
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Uśanas Kāvya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.