Ṛk 9.88.6
Saṃhitā
ए॒ते सोमा॒ अति॒ वारा॒ण्यव्या॑ दि॒व्या न कोशा॑सो अ॒भ्रव॑र्षाः ।
वृथा॑ समु॒द्रं सिंध॑वो॒ न नीचीः॑ सु॒तासो॑ अ॒भि क॒लशाँ॑ असृग्रन् ॥
एते सोमा अति वाराण्य् अव्या दिव्या न कोशासो अभ्रवर्षाः |
वृथा समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशां असृग्रन् ||
eté sómā áti vā́rāṇyávyā divyā́ ná kóśāso abhrávarṣāḥ ǀ
vṛ́thā samudrám síndhavo ná nī́cīḥ sutā́so abhí kaláśām̐ asṛgran ǁ
ete somā ati vārāṇy avyā divyā na kośāso abhravarṣāḥ |
vṛthā samudraṃ sindhavo na nīcīḥ sutāso abhi kalaśāṃ asṛgran ||
Padapāṭha
ए॒ते । सोमाः॑ । अति॑ । वारा॑णि । अव्या॑ । दि॒व्या । न । कोशा॑सः । अ॒भ्रऽव॑र्षाः ।
वृथा॑ । स॒मु॒द्रम् । सिन्ध॑वः । न । नीचीः॑ । सु॒तासः॑ । अ॒भि । क॒लशा॑न् । अ॒सृ॒ग्र॒न् ॥
एते । सोमाः । अति । वाराणि । अव्या । दिव्या । न । कोशासः । अभ्रऽवर्षाः ।
वृथा । समुद्रम् । सिन्धवः । न । नीचीः । सुतासः । अभि । कलशान् । असृग्रन् ॥
eté ǀ sómāḥ ǀ áti ǀ vā́rāṇi ǀ ávyā ǀ divyā́ ǀ ná ǀ kóśāsaḥ ǀ abhrá-varṣāḥ ǀ
vṛ́thā ǀ samudrám ǀ síndhavaḥ ǀ ná ǀ nī́cīḥ ǀ sutā́saḥ ǀ abhí ǀ kaláśān ǀ asṛgran ǁ
ete ǀ somāḥ ǀ ati ǀ vārāṇi ǀ avyā ǀ divyā ǀ na ǀ kośāsaḥ ǀ abhra-varṣāḥ ǀ
vṛthā ǀ samudram ǀ sindhavaḥ ǀ na ǀ nīcīḥ ǀ sutāsaḥ ǀ abhi ǀ kalaśān ǀ asṛgran ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.088.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.3.24.06
- Maṇḍala · Anuvāka · Ṛk
- 09.05.063
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Uśanas Kāvya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.