Ṛk 9.88.1
Saṃhitā
अ॒यं सोम॑ इंद्र॒ तुभ्यं॑ सुन्वे॒ तुभ्यं॑ पवते॒ त्वम॑स्य पाहि ।
त्वं ह॒ यं च॑कृ॒षे त्वं व॑वृ॒ष इंदुं॒ मदा॑य॒ युज्या॑य॒ सोमं॑ ॥
अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यम् पवते त्वम् अस्य पाहि |
त्वं ह यं चकृषे त्वं ववृष इन्दुम् मदाय युज्याय सोमम् ||
ayám sóma indra túbhyam sunve túbhyam pavate tvámasya pāhi ǀ
tvám ha yám cakṛṣé tvám vavṛṣá índum mádāya yújyāya sómam ǁ
ayaṃ soma indra tubhyaṃ sunve tubhyam pavate tvam asya pāhi |
tvaṃ ha yaṃ cakṛṣe tvaṃ vavṛṣa indum madāya yujyāya somam ||
Padapāṭha
अ॒यम् । सोमः॑ । इ॒न्द्र॒ । तुभ्य॑म् । सु॒न्वे॒ । तुभ्य॑म् । प॒व॒ते॒ । त्वम् । अ॒स्य॒ । पा॒हि॒ ।
त्वम् । ह॒ । यम् । च॒कृ॒षे । त्वम् । व॒वृ॒षे । इन्दु॑म् । मदा॑य । युज्या॑य । सोम॑म् ॥
अयम् । सोमः । इन्द्र । तुभ्यम् । सुन्वे । तुभ्यम् । पवते । त्वम् । अस्य । पाहि ।
त्वम् । ह । यम् । चकृषे । त्वम् । ववृषे । इन्दुम् । मदाय । युज्याय । सोमम् ॥
ayám ǀ sómaḥ ǀ indra ǀ túbhyam ǀ sunve ǀ túbhyam ǀ pavate ǀ tvám ǀ asya ǀ pāhi ǀ
tvám ǀ ha ǀ yám ǀ cakṛṣé ǀ tvám ǀ vavṛṣé ǀ índum ǀ mádāya ǀ yújyāya ǀ sómam ǁ
ayam ǀ somaḥ ǀ indra ǀ tubhyam ǀ sunve ǀ tubhyam ǀ pavate ǀ tvam ǀ asya ǀ pāhi ǀ
tvam ǀ ha ǀ yam ǀ cakṛṣe ǀ tvam ǀ vavṛṣe ǀ indum ǀ madāya ǀ yujyāya ǀ somam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.088.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.3.24.01
- Maṇḍala · Anuvāka · Ṛk
- 09.05.058
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Uśanas Kāvya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.