Ṛgveda · Maṇḍala 9 · Sūkta 88

Ṛk 9.88.8

Soma Pavamāna · Uśanas Kāvya

The whole sūkta Link

Saṃhitā

राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ ।
शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो॑ अर्य॒मेवा॑सि सोम ॥

राज्ञो नु ते वरुणस्य व्रतानि बृहद् गभीरं तव सोम धाम |
शुचिष् ट्वम् असि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ||

rā́jño nú te váruṇasya vratā́ni bṛhádgabhīrám táva soma dhā́ma ǀ
śúciṣṭvámasi priyó ná mitró dakṣā́yyo aryamévāsi soma ǁ

rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma |
śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma ||

Padapāṭha

राज्ञः॑ । नु । ते॒ । वरु॑णस्य । व्र॒तानि॑ । बृ॒हत् । ग॒भी॒रम् । तव॑ । सो॒म॒ । धाम॑ ।
शुचिः॑ । त्वम् । अ॒सि॒ । प्रि॒यः । न । मि॒त्रः । द॒क्षाय्यः॑ । अ॒र्य॒माऽइ॑व । अ॒सि॒ । सो॒म॒ ॥

राज्ञः । नु । ते । वरुणस्य । व्रतानि । बृहत् । गभीरम् । तव । सोम । धाम ।
शुचिः । त्वम् । असि । प्रियः । न । मित्रः । दक्षाय्यः । अर्यमाऽइव । असि । सोम ॥

rā́jñaḥ ǀ nú ǀ te ǀ váruṇasya ǀ vratā́ni ǀ bṛhát ǀ gabhīrám ǀ táva ǀ soma ǀ dhā́ma ǀ
śúciḥ ǀ tvám ǀ asi ǀ priyáḥ ǀ ná ǀ mitráḥ ǀ dakṣā́yyaḥ ǀ aryamā́-iva ǀ asi ǀ soma ǁ

rājñaḥ ǀ nu ǀ te ǀ varuṇasya ǀ vratāni ǀ bṛhat ǀ gabhīram ǀ tava ǀ soma ǀ dhāma ǀ
śuciḥ ǀ tvam ǀ asi ǀ priyaḥ ǀ na ǀ mitraḥ ǀ dakṣāyyaḥ ǀ aryamā-iva ǀ asi ǀ soma ǁ

References

Maṇḍala · Sūkta · Ṛk
09.088.08
Aṣṭaka · Adhyāya · Varga · Ṛk
7.3.24.08
Maṇḍala · Anuvāka · Ṛk
09.05.065
Devatā देवता
Soma Pavamāna
Ṛṣi ऋषि
Uśanas Kāvya
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 9.88.8

Interpretations

Sāyaṇa

प्रोस्यवह्निरिति सप्तर्चंचतर्थंसूक्तं ऋष्याद्याःपूर्ववत् । प्रोस्यसप्तेत्यनुक्रान्तं । गतोविनि योगः ।