Ṛk 8.9.10
Saṃhitā
यद्वां॑ क॒क्षीवाँ॑ उ॒त यद्व्य॑श्व॒ ऋषि॒र्यद्वां॑ दी॒र्घत॑मा जु॒हाव॑ ।
पृथी॒ यद्वां॑ वै॒न्यः साद॑नेष्वे॒वेदतो॑ अश्विना चेतयेथां ॥
यद् वां कक्षीवां उत यद् व्यश्व ऋषिर् यद् वां दीर्घतमा जुहाव |
पृथी यद् वां वैन्यः सादनेष्व् एवेद् अतो अश्विना चेतयेथाम् ||
yádvām kakṣī́vām̐ utá yádvyáśva ṛ́ṣiryádvām dīrghátamā juhā́va ǀ
pṛ́thī yádvām vainyáḥ sā́daneṣvevédáto aśvinā cetayethām ǁ
yad vāṃ kakṣīvāṃ uta yad vyaśva ṛṣir yad vāṃ dīrghatamā juhāva |
pṛthī yad vāṃ vainyaḥ sādaneṣv eved ato aśvinā cetayethām ||
Padapāṭha
यत् । वा॒म् । क॒क्षीवा॑न् । उ॒त । यत् । विऽअ॑श्वः । ऋषिः॑ । यत् । वा॒म् । दी॒र्घऽत॑माः । जु॒हाव॑ ।
पृथी॑ । यत् । वा॒म् । वै॒न्यः । सद॑नेषु । ए॒व । इत् । अतः॑ । अ॒श्वि॒ना॒ । चे॒त॒ये॒था॒म् ॥
यत् । वाम् । कक्षीवान् । उत । यत् । विऽअश्वः । ऋषिः । यत् । वाम् । दीर्घऽतमाः । जुहाव ।
पृथी । यत् । वाम् । वैन्यः । सदनेषु । एव । इत् । अतः । अश्विना । चेतयेथाम् ॥
yát ǀ vām ǀ kakṣī́vān ǀ utá ǀ yát ǀ ví-aśvaḥ ǀ ṛ́ṣiḥ ǀ yát ǀ vām ǀ dīrghá-tamāḥ ǀ juhā́va ǀ
pṛ́thī ǀ yát ǀ vām ǀ vainyáḥ ǀ sádaneṣu ǀ evá ǀ ít ǀ átaḥ ǀ aśvinā ǀ cetayethām ǁ
yat ǀ vām ǀ kakṣīvān ǀ uta ǀ yat ǀ vi-aśvaḥ ǀ ṛṣiḥ ǀ yat ǀ vām ǀ dīrgha-tamāḥ ǀ juhāva ǀ
pṛthī ǀ yat ǀ vām ǀ vainyaḥ ǀ sadaneṣu ǀ eva ǀ it ǀ ataḥ ǀ aśvinā ǀ cetayethām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.009.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.8.31.05
- Maṇḍala · Anuvāka · Ṛk
- 08.02.117
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Śaśakarṇa Kāṇva
- Chandas छन्दस्
- Anuṣṭubh, Bṛhatī, Gāyatrī, Kakubh, Triṣṭubh, Virāj, Jagatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.