Ṛk 8.9.16
Saṃhitā
अभु॑त्स्यु॒ प्र दे॒व्या सा॒कं वा॒चाहम॒श्विनोः॑ ।
व्या॑वर्दे॒व्या म॒तिं वि रा॒तिं मर्त्ये॑भ्यः ॥
अभुत्स्य् उ प्र देव्या साकं वाचाहम् अश्विनोः |
व्य् आवर् देव्य् आ मतिं वि रातिम् मर्त्येभ्यः ||
ábhutsyu prá devyā́ sākám vācā́hámaśvínoḥ ǀ
vyā́vardevyā́ matím ví rātím mártyebhyaḥ ǁ
abhutsy u pra devyā sākaṃ vācāham aśvinoḥ |
vy āvar devy ā matiṃ vi rātim martyebhyaḥ ||
Padapāṭha
अभु॑त्सि । ऊं॒ इति॑ । प्र । दे॒व्या । सा॒कम् । वा॒चा । अ॒हम् । अ॒श्विनोः॑ ।
वि । आ॒वः॒ । दे॒वि॒ । आ । म॒तिम् । वि । रा॒तिम् । मर्त्ये॑भ्यः ॥
अभुत्सि । ऊं इति । प्र । देव्या । साकम् । वाचा । अहम् । अश्विनोः ।
वि । आवः । देवि । आ । मतिम् । वि । रातिम् । मर्त्येभ्यः ॥
ábhutsi ǀ ūṃ íti ǀ prá ǀ devyā́ ǀ sākám ǀ vācā́ ǀ ahám ǀ aśvínoḥ ǀ
ví ǀ āvaḥ ǀ devi ǀ ā́ ǀ matím ǀ ví ǀ rātím ǀ mártyebhyaḥ ǁ
abhutsi ǀ ūṃ iti ǀ pra ǀ devyā ǀ sākam ǀ vācā ǀ aham ǀ aśvinoḥ ǀ
vi ǀ āvaḥ ǀ devi ǀ ā ǀ matim ǀ vi ǀ rātim ǀ martyebhyaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.009.16
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.8.33.01
- Maṇḍala · Anuvāka · Ṛk
- 08.02.123
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Śaśakarṇa Kāṇva
- Chandas छन्दस्
- Anuṣṭubh, Bṛhatī, Gāyatrī, Kakubh, Triṣṭubh, Virāj, Jagatī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.