Ṛk 8.9.1
Saṃhitā
आ नू॒नम॑श्विना यु॒वं व॒त्सस्य॑ गंत॒मव॑से ।
प्रास्मै॑ यच्छतमवृ॒कं पृ॒थु च्छ॒र्दिर्यु॑यु॒तं या अरा॑तयः ॥
आ नूनम् अश्विना युवं वत्सस्य गन्तम् अवसे |
प्रास्मै यच्छतम् अवृकम् पृथु च्छर्दिर् युयुतं या अरातयः ||
ā́ nūnámaśvinā yuvám vatsásya gantamávase ǀ
prā́smai yacchatamavṛkám pṛthú chardíryuyutám yā́ árātayaḥ ǁ
ā nūnam aśvinā yuvaṃ vatsasya gantam avase |
prāsmai yacchatam avṛkam pṛthu cchardir yuyutaṃ yā arātayaḥ ||
Padapāṭha
आ । नू॒नम् । अ॒श्वि॒ना॒ । यु॒वम् । व॒त्सस्य॑ । ग॒न्त॒म् । अव॑से ।
प्र । अ॒स्मै॒ । य॒च्छ॒त॒म् । अ॒वृ॒कम् । पृ॒थु । छ॒र्दिः । यु॒यु॒तम् । याः । अरा॑तयः ॥
आ । नूनम् । अश्विना । युवम् । वत्सस्य । गन्तम् । अवसे ।
प्र । अस्मै । यच्छतम् । अवृकम् । पृथु । छर्दिः । युयुतम् । याः । अरातयः ॥
ā́ ǀ nūnám ǀ aśvinā ǀ yuvám ǀ vatsásya ǀ gantam ǀ ávase ǀ
prá ǀ asmai ǀ yacchatam ǀ avṛkám ǀ pṛthú ǀ chardíḥ ǀ yuyutám ǀ yā́ḥ ǀ árātayaḥ ǁ
ā ǀ nūnam ǀ aśvinā ǀ yuvam ǀ vatsasya ǀ gantam ǀ avase ǀ
pra ǀ asmai ǀ yacchatam ǀ avṛkam ǀ pṛthu ǀ chardiḥ ǀ yuyutam ǀ yāḥ ǀ arātayaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.009.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.8.30.01
- Maṇḍala · Anuvāka · Ṛk
- 08.02.108
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Śaśakarṇa Kāṇva
- Chandas छन्दस्
- Anuṣṭubh, Bṛhatī, Gāyatrī, Kakubh, Triṣṭubh, Virāj, Jagatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.