Ṛk 8.9.2
Saṃhitā
यदं॒तरि॑क्षे॒ यद्दि॒वि यत्पंच॒ मानु॑षाँ॒ अनु॑ ।
नृ॒म्णं तद्ध॑त्तमश्विना ॥
यद् अन्तरिक्षे यद् दिवि यत् पञ्च मानुषां अनु |
नृम्णं तद् धत्तम् अश्विना ||
yádantárikṣe yáddiví yátpáñca mā́nuṣām̐ ánu ǀ
nṛmṇám táddhattamaśvinā ǁ
yad antarikṣe yad divi yat pañca mānuṣāṃ anu |
nṛmṇaṃ tad dhattam aśvinā ||
Padapāṭha
यत् । अ॒न्तरि॑क्षे । यत् । दि॒वि । यत् । पञ्च॑ । मानु॑षान् । अनु॑ ।
नृ॒म्णम् । तत् । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥
यत् । अन्तरिक्षे । यत् । दिवि । यत् । पञ्च । मानुषान् । अनु ।
नृम्णम् । तत् । धत्तम् । अश्विना ॥
yát ǀ antárikṣe ǀ yát ǀ diví ǀ yát ǀ páñca ǀ mā́nuṣān ǀ ánu ǀ
nṛmṇám ǀ tát ǀ dhattam ǀ aśvinā ǁ
yat ǀ antarikṣe ǀ yat ǀ divi ǀ yat ǀ pañca ǀ mānuṣān ǀ anu ǀ
nṛmṇam ǀ tat ǀ dhattam ǀ aśvinā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.009.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.8.30.02
- Maṇḍala · Anuvāka · Ṛk
- 08.02.109
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Śaśakarṇa Kāṇva
- Chandas छन्दस्
- Anuṣṭubh, Bṛhatī, Gāyatrī, Kakubh, Triṣṭubh, Virāj, Jagatī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.