Ṛk 8.9.9
Saṃhitā
यद॒द्य वां॑ नासत्यो॒क्थैरा॑चुच्युवी॒महि॑ ।
यद्वा॒ वाणी॑भिरश्विने॒वेत्का॒ण्वस्य॑ बोधतं ॥
यद् अद्य वां नासत्योक्थैर् आचुच्युवीमहि |
यद् वा वाणीभिर् अश्विनेवेत् काण्वस्य बोधतम् ||
yádadyá vām nāsatyoktháirācucyuvīmáhi ǀ
yádvā vā́ṇībhiraśvinevétkāṇvásya bodhatam ǁ
yad adya vāṃ nāsatyokthair ācucyuvīmahi |
yad vā vāṇībhir aśvinevet kāṇvasya bodhatam ||
Padapāṭha
यत् । अ॒द्य । वा॒म् । ना॒स॒त्या॒ । उ॒क्थैः । आ॒ऽचु॒च्यु॒वी॒महि॑ ।
यत् । वा॒ । वाणी॑भिः । अ॒श्वि॒ना॒ । ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ॥
यत् । अद्य । वाम् । नासत्या । उक्थैः । आऽचुच्युवीमहि ।
यत् । वा । वाणीभिः । अश्विना । एव । इत् । काण्वस्य । बोधतम् ॥
yát ǀ adyá ǀ vām ǀ nāsatyā ǀ uktháiḥ ǀ ā-cucyuvīmáhi ǀ
yát ǀ vā ǀ vā́ṇībhiḥ ǀ aśvinā ǀ evá ǀ ít ǀ kāṇvásya ǀ bodhatam ǁ
yat ǀ adya ǀ vām ǀ nāsatyā ǀ ukthaiḥ ǀ ā-cucyuvīmahi ǀ
yat ǀ vā ǀ vāṇībhiḥ ǀ aśvinā ǀ eva ǀ it ǀ kāṇvasya ǀ bodhatam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.009.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.8.31.04
- Maṇḍala · Anuvāka · Ṛk
- 08.02.116
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Śaśakarṇa Kāṇva
- Chandas छन्दस्
- Anuṣṭubh, Bṛhatī, Gāyatrī, Kakubh, Triṣṭubh, Virāj, Jagatī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.