Ṛk 8.9.4
Saṃhitā
अ॒यं वां॑ घ॒र्मो अ॑श्विना॒ स्तोमे॑न॒ परि॑ षिच्यते ।
अ॒यं सोमो॒ मधु॑मान्वाजिनीवसू॒ येन॑ वृ॒त्रं चिके॑तथः ॥
अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते |
अयं सोमो मधुमान् वाजिनीवसू येन वृत्रं चिकेतथः ||
ayám vām gharmó aśvinā stómena pári ṣicyate ǀ
ayám sómo mádhumānvājinīvasū yéna vṛtrám cíketathaḥ ǁ
ayaṃ vāṃ gharmo aśvinā stomena pari ṣicyate |
ayaṃ somo madhumān vājinīvasū yena vṛtraṃ ciketathaḥ ||
Padapāṭha
अ॒यम् । वा॒म् । घ॒र्मः । अ॒श्वि॒ना॒ । स्तोमे॑न । परि॑ । सि॒च्य॒ते॒ ।
अ॒यम् । सोमः॑ । मधु॑ऽमान् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । येन॑ । वृ॒त्रम् । चिके॑तथः ॥
अयम् । वाम् । घर्मः । अश्विना । स्तोमेन । परि । सिच्यते ।
अयम् । सोमः । मधुऽमान् । वाजिनीवसू इति वाजिनीऽवसू । येन । वृत्रम् । चिकेतथः ॥
ayám ǀ vām ǀ gharmáḥ ǀ aśvinā ǀ stómena ǀ pári ǀ sicyate ǀ
ayám ǀ sómaḥ ǀ mádhu-mān ǀ vājinīvasū íti vājinī-vasū ǀ yéna ǀ vṛtrám ǀ cíketathaḥ ǁ
ayam ǀ vām ǀ gharmaḥ ǀ aśvinā ǀ stomena ǀ pari ǀ sicyate ǀ
ayam ǀ somaḥ ǀ madhu-mān ǀ vājinīvasū iti vājinī-vasū ǀ yena ǀ vṛtram ǀ ciketathaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.009.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.8.30.04
- Maṇḍala · Anuvāka · Ṛk
- 08.02.111
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Śaśakarṇa Kāṇva
- Chandas छन्दस्
- Anuṣṭubh, Bṛhatī, Gāyatrī, Kakubh, Triṣṭubh, Virāj, Jagatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.