Ṛk 8.9.18
Saṃhitā
यदु॑षो॒ यासि॑ भा॒नुना॒ सं सूर्ये॑ण रोचसे ।
आ हा॒यम॒श्विनो॒ रथो॑ व॒र्तिर्या॑ति नृ॒पाय्यं॑ ॥
यद् उषो यासि भानुना सं सूर्येण रोचसे |
आ हायम् अश्विनो रथो वर्तिर् याति नृपाय्यम् ||
yáduṣo yā́si bhānúnā sám sū́ryeṇa rocase ǀ
ā́ hāyámaśvíno rátho vartíryāti nṛpā́yyam ǁ
yad uṣo yāsi bhānunā saṃ sūryeṇa rocase |
ā hāyam aśvino ratho vartir yāti nṛpāyyam ||
Padapāṭha
यत् । उ॒षः॒ । यासि॑ । भा॒नुना॑ । सम् । सूर्ये॑ण । रो॒च॒से॒ ।
आ । ह॒ । अ॒यम् । अ॒श्विनोः॑ । रथः॑ । व॒र्तिः । या॒ति॒ । नृ॒ऽपाय्य॑म् ॥
यत् । उषः । यासि । भानुना । सम् । सूर्येण । रोचसे ।
आ । ह । अयम् । अश्विनोः । रथः । वर्तिः । याति । नृऽपाय्यम् ॥
yát ǀ uṣaḥ ǀ yā́si ǀ bhānúnā ǀ sám ǀ sū́ryeṇa ǀ rocase ǀ
ā́ ǀ ha ǀ ayám ǀ aśvínoḥ ǀ ráthaḥ ǀ vartíḥ ǀ yāti ǀ nṛ-pā́yyam ǁ
yat ǀ uṣaḥ ǀ yāsi ǀ bhānunā ǀ sam ǀ sūryeṇa ǀ rocase ǀ
ā ǀ ha ǀ ayam ǀ aśvinoḥ ǀ rathaḥ ǀ vartiḥ ǀ yāti ǀ nṛ-pāyyam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.009.18
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.8.33.03
- Maṇḍala · Anuvāka · Ṛk
- 08.02.125
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Śaśakarṇa Kāṇva
- Chandas छन्दस्
- Anuṣṭubh, Bṛhatī, Gāyatrī, Kakubh, Triṣṭubh, Virāj, Jagatī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.