Ṛk 8.9.13
Saṃhitā
यद॒द्याश्विना॑व॒हं हु॒वेय॒ वाज॑सातये ।
यत्पृ॒त्सु तु॒र्वणे॒ सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रवः॑ ॥
यद् अद्याश्विनाव् अहं हुवेय वाजसातये |
यत् पृत्सु तुर्वणे सहस् तच् छ्रेष्ठम् अश्विनोर् अवः ||
yádadyā́śvínāvahám huvéya vā́jasātaye ǀ
yátpṛtsú turváṇe sáhastácchréṣṭhamaśvínorávaḥ ǁ
yad adyāśvināv ahaṃ huveya vājasātaye |
yat pṛtsu turvaṇe sahas tac chreṣṭham aśvinor avaḥ ||
Padapāṭha
यत् । अ॒द्य । अ॒श्विनौ॑ । अ॒हम् । हु॒वेय॑ । वाज॑ऽसातये ।
यत् । पृ॒त्ऽसु । तु॒र्वणे॑ । सहः॑ । तत् । श्रेष्ठ॑म् । अ॒श्विनोः॑ । अवः॑ ॥
यत् । अद्य । अश्विनौ । अहम् । हुवेय । वाजऽसातये ।
यत् । पृत्ऽसु । तुर्वणे । सहः । तत् । श्रेष्ठम् । अश्विनोः । अवः ॥
yát ǀ adyá ǀ aśvínau ǀ ahám ǀ huvéya ǀ vā́ja-sātaye ǀ
yát ǀ pṛt-sú ǀ turváṇe ǀ sáhaḥ ǀ tát ǀ śréṣṭham ǀ aśvínoḥ ǀ ávaḥ ǁ
yat ǀ adya ǀ aśvinau ǀ aham ǀ huveya ǀ vāja-sātaye ǀ
yat ǀ pṛt-su ǀ turvaṇe ǀ sahaḥ ǀ tat ǀ śreṣṭham ǀ aśvinoḥ ǀ avaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.009.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.8.32.03
- Maṇḍala · Anuvāka · Ṛk
- 08.02.120
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Śaśakarṇa Kāṇva
- Chandas छन्दस्
- Anuṣṭubh, Bṛhatī, Gāyatrī, Kakubh, Triṣṭubh, Virāj, Jagatī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.