Ṛk 9.71.2
Saṃhitā
प्र कृ॑ष्टि॒हेव॑ शू॒ष ए॑ति॒ रोरु॑वदसु॒र्यं१॒॑ वर्णं॒ नि रि॑णीते अस्य॒ तं ।
जहा॑ति व॒व्रिं पि॒तुरे॑ति निष्कृ॒तमु॑प॒प्रुतं॑ कृणुते नि॒र्णिजं॒ तना॑ ॥
प्र कृष्टिहेव शूष एति रोरुवद् असुर्यं वर्णं नि रिणीते अस्य तम् |
जहाति वव्रिम् पितुर् एति निष्कृतम् उपप्रुतं कृणुते निर्णिजं तना ||
prá kṛṣṭihéva śūṣá eti róruvadasuryám várṇam ní riṇīte asya tám ǀ
jáhāti vavrím pitúreti niṣkṛtámupaprútam kṛṇute nirṇíjam tánā ǁ
pra kṛṣṭiheva śūṣa eti roruvad asuryaṃ varṇaṃ ni riṇīte asya tam |
jahāti vavrim pitur eti niṣkṛtam upaprutaṃ kṛṇute nirṇijaṃ tanā ||
Padapāṭha
प्र । कृ॒ष्टि॒हाऽइ॑व । शू॒षः । ए॒ति॒ । रोरु॑वत् । अ॒सु॒र्य॑म् । वर्ण॑म् । नि । रि॒णी॒ते॒ । अ॒स्य॒ । तम् ।
जहा॑ति । व॒व्रिम् । पि॒तुः । ए॒ति॒ । निः॒ऽकृ॒तम् । उ॒प॒ऽप्रुत॑म् । कृ॒णु॒ते॒ । निः॒ऽनिज॑म् । तना॑ ॥
प्र । कृष्टिहाऽइव । शूषः । एति । रोरुवत् । असुर्यम् । वर्णम् । नि । रिणीते । अस्य । तम् ।
जहाति । वव्रिम् । पितुः । एति । निःऽकृतम् । उपऽप्रुतम् । कृणुते । निःऽनिजम् । तना ॥
prá ǀ kṛṣṭihā́-iva ǀ śūṣáḥ ǀ eti ǀ róruvat ǀ asuryám ǀ várṇam ǀ ní ǀ riṇīte ǀ asya ǀ tám ǀ
jáhāti ǀ vavrím ǀ pitúḥ ǀ eti ǀ niḥ-kṛtám ǀ upa-prútam ǀ kṛṇute ǀ niḥ-níjam ǀ tánā ǁ
pra ǀ kṛṣṭihā-iva ǀ śūṣaḥ ǀ eti ǀ roruvat ǀ asuryam ǀ varṇam ǀ ni ǀ riṇīte ǀ asya ǀ tam ǀ
jahāti ǀ vavrim ǀ pituḥ ǀ eti ǀ niḥ-kṛtam ǀ upa-prutam ǀ kṛṇute ǀ niḥ-nijam ǀ tanā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.071.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.2.25.02
- Maṇḍala · Anuvāka · Ṛk
- 09.04.032
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Ṛṣabha Vaiśvāmitra
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.