Ṛk 9.71.8
Saṃhitā
त्वे॒षं रू॒पं कृ॑णुते॒ वर्णो॑ अस्य॒ स यत्राश॑य॒त्समृ॑ता॒ सेध॑ति स्रि॒धः ।
अ॒प्सा या॑ति स्व॒धया॒ दैव्यं॒ जनं॒ सं सु॑ष्टु॒ती नस॑ते॒ सं गोअ॑ग्रया ॥
त्वेषं रूपं कृणुते वर्णो अस्य स यत्राशयत् समृता सेधति स्रिधः |
अप्सा याति स्वधया दैव्यं जनं सं सुष्टुती नसते सं गोअग्रया ||
tveṣám rūpám kṛṇute várṇo asya sá yátrā́śayatsámṛtā sédhati sridháḥ ǀ
apsā́ yāti svadháyā dáivyam jánam sám suṣṭutī́ násate sám góagrayā ǁ
tveṣaṃ rūpaṃ kṛṇute varṇo asya sa yatrāśayat samṛtā sedhati sridhaḥ |
apsā yāti svadhayā daivyaṃ janaṃ saṃ suṣṭutī nasate saṃ goagrayā ||
Padapāṭha
त्वे॒षम् । रू॒पम् । कृ॒णु॒ते॒ । वर्णः॑ । अ॒स्य॒ । सः । यत्र॑ । अश॑यत् । सम्ऽऋ॑ता । सेध॑ति । स्रि॒धः ।
अ॒प्साः । या॒ति॒ । स्व॒धया॑ । दैव्य॑म् । जन॑म् । सम् । सु॒ऽस्तु॒ती । नस॑ते । सम् । गोऽअ॑ग्रया ॥
त्वेषम् । रूपम् । कृणुते । वर्णः । अस्य । सः । यत्र । अशयत् । सम्ऽऋता । सेधति । स्रिधः ।
अप्साः । याति । स्वधया । दैव्यम् । जनम् । सम् । सुऽस्तुती । नसते । सम् । गोऽअग्रया ॥
tveṣám ǀ rūpám ǀ kṛṇute ǀ várṇaḥ ǀ asya ǀ sáḥ ǀ yátra ǀ áśayat ǀ sám-ṛtā ǀ sédhati ǀ sridháḥ ǀ
apsā́ḥ ǀ yāti ǀ svadháyā ǀ dáivyam ǀ jánam ǀ sám ǀ su-stutī́ ǀ násate ǀ sám ǀ gó-agrayā ǁ
tveṣam ǀ rūpam ǀ kṛṇute ǀ varṇaḥ ǀ asya ǀ saḥ ǀ yatra ǀ aśayat ǀ sam-ṛtā ǀ sedhati ǀ sridhaḥ ǀ
apsāḥ ǀ yāti ǀ svadhayā ǀ daivyam ǀ janam ǀ sam ǀ su-stutī ǀ nasate ǀ sam ǀ go-agrayā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.071.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.2.26.03
- Maṇḍala · Anuvāka · Ṛk
- 09.04.038
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Ṛṣabha Vaiśvāmitra
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.