Ṛgveda · Maṇḍala 9 · Sūkta 100
Ṛk 9.100.3
Saṃhitā
त्वं धियं॑ मनो॒युजं॑ सृ॒जा वृ॒ष्टिं न त॑न्य॒तुः ।
त्वं वसू॑नि॒ पार्थि॑वा दि॒व्या च॑ सोम पुष्यसि ॥
त्वं धियम् मनोयुजं सृजा वृष्टिं न तन्यतुः |
त्वं वसूनि पार्थिवा दिव्या च सोम पुष्यसि ||
tvám dhíyam manoyújam sṛjā́ vṛṣṭím ná tanyatúḥ ǀ
tvám vásūni pā́rthivā divyā́ ca soma puṣyasi ǁ
tvaṃ dhiyam manoyujaṃ sṛjā vṛṣṭiṃ na tanyatuḥ |
tvaṃ vasūni pārthivā divyā ca soma puṣyasi ||
Padapāṭha
त्वम् । धिय॑म् । म॒नः॒ऽयुज॑म् । सृ॒ज । वृ॒ष्टिम् । न । त॒न्य॒तुः ।
त्वम् । वसू॑नि । पार्थि॑वा । दि॒व्या । च॒ । सो॒म॒ । पु॒ष्य॒सि॒ ॥
त्वम् । धियम् । मनःऽयुजम् । सृज । वृष्टिम् । न । तन्यतुः ।
त्वम् । वसूनि । पार्थिवा । दिव्या । च । सोम । पुष्यसि ॥
tvám ǀ dhíyam ǀ manaḥ-yújam ǀ sṛjá ǀ vṛṣṭím ǀ ná ǀ tanyatúḥ ǀ
tvám ǀ vásūni ǀ pā́rthivā ǀ divyā́ ǀ ca ǀ soma ǀ puṣyasi ǁ
tvam ǀ dhiyam ǀ manaḥ-yujam ǀ sṛja ǀ vṛṣṭim ǀ na ǀ tanyatuḥ ǀ
tvam ǀ vasūni ǀ pārthivā ǀ divyā ǀ ca ǀ soma ǀ puṣyasi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.100.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.4.27.03
- Maṇḍala · Anuvāka · Ṛk
- 09.06.081
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Raibhau (Kāśyapas, Rebha’s Two Sons)
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.