Ṛk 8.27.10
Saṃhitā
अस्ति॒ हि वः॑ सजा॒त्यं॑ रिशादसो॒ देवा॑सो॒ अस्त्याप्यं॑ ।
प्र णः॒ पूर्व॑स्मै सुवि॒ताय॑ वोचत म॒क्षू सु॒म्नाय॒ नव्य॑से ॥
अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्य् आप्यम् |
प्र णः पूर्वस्मै सुविताय वोचत मक्षू सुम्नाय नव्यसे ||
ásti hí vaḥ sajātyám riśādaso dévāso ástyā́pyam ǀ
prá ṇaḥ pū́rvasmai suvitā́ya vocata makṣū́ sumnā́ya návyase ǁ
asti hi vaḥ sajātyaṃ riśādaso devāso asty āpyam |
pra ṇaḥ pūrvasmai suvitāya vocata makṣū sumnāya navyase ||
Padapāṭha
अस्ति॑ । हि । वः॒ । स॒ऽजा॒त्य॑म् । रि॒शा॒द॒सः॒ । देवा॑सः । अस्ति॑ । आप्य॑म् ।
प्र । नः॒ । पूर्व॑स्मै । सु॒वि॒ताय॑ । वो॒च॒त॒ । म॒क्षु । सु॒म्नाय॑ । नव्य॑से ॥
अस्ति । हि । वः । सऽजात्यम् । रिशादसः । देवासः । अस्ति । आप्यम् ।
प्र । नः । पूर्वस्मै । सुविताय । वोचत । मक्षु । सुम्नाय । नव्यसे ॥
ásti ǀ hí ǀ vaḥ ǀ sa-jātyám ǀ riśādasaḥ ǀ dévāsaḥ ǀ ásti ǀ ā́pyam ǀ
prá ǀ naḥ ǀ pū́rvasmai ǀ suvitā́ya ǀ vocata ǀ makṣú ǀ sumnā́ya ǀ návyase ǁ
asti ǀ hi ǀ vaḥ ǀ sa-jātyam ǀ riśādasaḥ ǀ devāsaḥ ǀ asti ǀ āpyam ǀ
pra ǀ naḥ ǀ pūrvasmai ǀ suvitāya ǀ vocata ǀ makṣu ǀ sumnāya ǀ navyase ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.027.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.2.32.05
- Maṇḍala · Anuvāka · Ṛk
- 08.04.155
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Manu Vaivasvata
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.