Ṛk 8.27.18
Saṃhitā
अज्रे॑ चिदस्मै कृणुथा॒ न्यंच॑नं दु॒र्गे चि॒दा सु॑सर॒णं ।
ए॒षा चि॑दस्माद॒शनिः॑ प॒रो नु सास्रे॑धंती॒ वि न॑श्यतु ॥
अज्रे चिद् अस्मै कृणुथा न्यञ्चनं दुर्गे चिद् आ सुसरणम् |
एषा चिद् अस्माद् अशनिः परो नु सास्रेधन्ती वि नश्यतु ||
ájre cidasmai kṛṇuthā nyáñcanam durgé cidā́ susaraṇám ǀ
eṣā́ cidasmādaśániḥ paró nú sā́sredhantī ví naśyatu ǁ
ajre cid asmai kṛṇuthā nyañcanaṃ durge cid ā susaraṇam |
eṣā cid asmād aśaniḥ paro nu sāsredhantī vi naśyatu ||
Padapāṭha
अज्रे॑ । चि॒त् । अ॒स्मै॒ । कृ॒णु॒थ॒ । नि॒ऽअञ्च॑नम् । दुः॒ऽगे । चि॒त् । आ । सु॒ऽस॒र॒णम् ।
ए॒षा । चि॒त् । अ॒स्मा॒त् । अ॒शनिः॑ । प॒रः । नु । सा । अस्रे॑धन्ती । वि । न॒श्य॒तु॒ ॥
अज्रे । चित् । अस्मै । कृणुथ । निऽअञ्चनम् । दुःऽगे । चित् । आ । सुऽसरणम् ।
एषा । चित् । अस्मात् । अशनिः । परः । नु । सा । अस्रेधन्ती । वि । नश्यतु ॥
ájre ǀ cit ǀ asmai ǀ kṛṇutha ǀ ni-áñcanam ǀ duḥ-gé ǀ cit ǀ ā́ ǀ su-saraṇám ǀ
eṣā́ ǀ cit ǀ asmāt ǀ aśániḥ ǀ paráḥ ǀ nú ǀ sā́ ǀ ásredhantī ǀ ví ǀ naśyatu ǁ
ajre ǀ cit ǀ asmai ǀ kṛṇutha ǀ ni-añcanam ǀ duḥ-ge ǀ cit ǀ ā ǀ su-saraṇam ǀ
eṣā ǀ cit ǀ asmāt ǀ aśaniḥ ǀ paraḥ ǀ nu ǀ sā ǀ asredhantī ǀ vi ǀ naśyatu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.027.18
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.2.34.02
- Maṇḍala · Anuvāka · Ṛk
- 08.04.163
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Manu Vaivasvata
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.