Ṛk 8.27.14
Saṃhitā
दे॒वासो॒ हि ष्मा॒ मन॑वे॒ सम॑न्यवो॒ विश्वे॑ सा॒कं सरा॑तयः ।
ते नो॑ अ॒द्य ते अ॑प॒रं तु॒चे तु नो॒ भवं॑तु वरिवो॒विदः॑ ॥
देवासो हि ष्मा मनवे समन्यवो विश्वे साकं सरातयः |
ते नो अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः ||
devā́so hí ṣmā mánave sámanyavo víśve sākám sárātayaḥ ǀ
té no adyá té aparám tucé tú no bhávantu varivovídaḥ ǁ
devāso hi ṣmā manave samanyavo viśve sākaṃ sarātayaḥ |
te no adya te aparaṃ tuce tu no bhavantu varivovidaḥ ||
Padapāṭha
दे॒वासः॑ । हि । स्म॒ । मन॑वे । सऽम॑न्यवः । विश्वे॑ । सा॒कम् । सऽरा॑तयः ।
ते । नः॒ । अ॒द्य । ते । अ॒प॒रम् । तु॒चे । तु । नः॒ । भव॑न्तु । व॒रि॒वः॒ऽविदः॑ ॥
देवासः । हि । स्म । मनवे । सऽमन्यवः । विश्वे । साकम् । सऽरातयः ।
ते । नः । अद्य । ते । अपरम् । तुचे । तु । नः । भवन्तु । वरिवःऽविदः ॥
devā́saḥ ǀ hí ǀ sma ǀ mánave ǀ sá-manyavaḥ ǀ víśve ǀ sākám ǀ sá-rātayaḥ ǀ
té ǀ naḥ ǀ adyá ǀ té ǀ aparám ǀ tucé ǀ tú ǀ naḥ ǀ bhávantu ǀ varivaḥ-vídaḥ ǁ
devāsaḥ ǀ hi ǀ sma ǀ manave ǀ sa-manyavaḥ ǀ viśve ǀ sākam ǀ sa-rātayaḥ ǀ
te ǀ naḥ ǀ adya ǀ te ǀ aparam ǀ tuce ǀ tu ǀ naḥ ǀ bhavantu ǀ varivaḥ-vidaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.027.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.2.33.04
- Maṇḍala · Anuvāka · Ṛk
- 08.04.159
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Manu Vaivasvata
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.