Ṛk 8.27.20
Saṃhitā
यद्वा॑भिपि॒त्वे अ॑सुरा ऋ॒तं य॒ते छ॒र्दिर्ये॒म वि दा॒शुषे॑ ।
व॒यं तद्वो॑ वसवो विश्ववेदस॒ उप॑ स्थेयाम॒ मध्य॒ आ ॥
यद् वाभिपित्वे असुरा ऋतं यते छर्दिर् येम वि दाशुषे |
वयं तद् वो वसवो विश्ववेदस उप स्थेयाम मध्य आ ||
yádvābhipitvé asurā ṛtám yaté chardíryemá ví dāśúṣe ǀ
vayám tádvo vasavo viśvavedasa úpa stheyāma mádhya ā́ ǁ
yad vābhipitve asurā ṛtaṃ yate chardir yema vi dāśuṣe |
vayaṃ tad vo vasavo viśvavedasa upa stheyāma madhya ā ||
Padapāṭha
यत् । वा॒ । अ॒भि॒ऽपि॒त्वे । अ॒सु॒राः॒ । ऋ॒तम् । य॒ते । छ॒र्दिः । ये॒म । वि । दा॒शुषे॑ ।
व॒यम् । तत् । वः॒ । व॒स॒वः॒ । वि॒श्व॒ऽवे॒द॒सः॒ । उप॑ । स्थे॒या॒म॒ । मध्ये॑ । आ ॥
यत् । वा । अभिऽपित्वे । असुराः । ऋतम् । यते । छर्दिः । येम । वि । दाशुषे ।
वयम् । तत् । वः । वसवः । विश्वऽवेदसः । उप । स्थेयाम । मध्ये । आ ॥
yát ǀ vā ǀ abhi-pitvé ǀ asurāḥ ǀ ṛtám ǀ yaté ǀ chardíḥ ǀ yemá ǀ ví ǀ dāśúṣe ǀ
vayám ǀ tát ǀ vaḥ ǀ vasavaḥ ǀ viśva-vedasaḥ ǀ úpa ǀ stheyāma ǀ mádhye ǀ ā́ ǁ
yat ǀ vā ǀ abhi-pitve ǀ asurāḥ ǀ ṛtam ǀ yate ǀ chardiḥ ǀ yema ǀ vi ǀ dāśuṣe ǀ
vayam ǀ tat ǀ vaḥ ǀ vasavaḥ ǀ viśva-vedasaḥ ǀ upa ǀ stheyāma ǀ madhye ǀ ā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.027.20
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.2.34.04
- Maṇḍala · Anuvāka · Ṛk
- 08.04.165
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Manu Vaivasvata
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.