Ṛgveda · Maṇḍala 9 · Sūkta 8

Ṛk 9.8.9

Soma Pavamāna · Asita Kāśyapa Or Devala Kāśyapa

The whole sūkta Link

Saṃhitā

नृ॒चक्ष॑सं त्वा व॒यमिंद्र॑पीतं स्व॒र्विदं॑ ।
भ॒क्षी॒महि॑ प्र॒जामिषं॑ ॥

नृचक्षसं त्वा वयम् इन्द्रपीतं स्वर्विदम् |
भक्षीमहि प्रजाम् इषम् ||

nṛcákṣasam tvā vayámíndrapītam svarvídam ǀ
bhakṣīmáhi prajā́míṣam ǁ

nṛcakṣasaṃ tvā vayam indrapītaṃ svarvidam |
bhakṣīmahi prajām iṣam ||

Padapāṭha

नृ॒ऽचक्ष॑सम् । त्वा॒ । व॒यम् । इन्द्र॑ऽपीतम् । स्वः॒ऽविद॑म् ।
भ॒क्षी॒महि॑ । प्र॒ऽजाम् । इष॑म् ॥

नृऽचक्षसम् । त्वा । वयम् । इन्द्रऽपीतम् । स्वःऽविदम् ।
भक्षीमहि । प्रऽजाम् । इषम् ॥

nṛ-cákṣasam ǀ tvā ǀ vayám ǀ índra-pītam ǀ svaḥ-vídam ǀ
bhakṣīmáhi ǀ pra-jā́m ǀ íṣam ǁ

nṛ-cakṣasam ǀ tvā ǀ vayam ǀ indra-pītam ǀ svaḥ-vidam ǀ
bhakṣīmahi ǀ pra-jām ǀ iṣam ǁ

References

Maṇḍala · Sūkta · Ṛk
09.008.09
Aṣṭaka · Adhyāya · Varga · Ṛk
6.7.31.04
Maṇḍala · Anuvāka · Ṛk
09.01.078
Devatā देवता
Soma Pavamāna
Ṛṣi ऋषि
Asita Kāśyapa Or Devala Kāśyapa
Chandas छन्दस्
Gāyatrī
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 9.8.9

Interpretations

Sāyaṇa

हे सोम नृचक्षसं नृणां द्रष्टारं स्वर्विदं सर्वज्ञं इन्द्रपीतं इद्रेण पीतं त्वा त्वां पिबन्तोवयं काश्यपासिताः काश्यपादेवलावा प्रजां पुत्रादिकामिषमन्नंच भक्षीमहि भजेमहि ॥ ९ ॥ परिप्रियेति नवर्चं नवमं सूक्तं ऋष्याद्याः पूर्ववत् । परिप्रियेत्यनुक्रान्तं । उक्तोविनियोगः ।