Ṛk 9.69.5
Saṃhitā
अमृ॑क्तेन॒ रुश॑ता॒ वास॑सा॒ हरि॒रम॑र्त्यो निर्णिजा॒नः परि॑ व्यत ।
दि॒वस्पृ॒ष्ठं ब॒र्हणा॑ नि॒र्णिजे॑ कृतोप॒स्तर॑णं च॒म्वो॑र्नभ॒स्मयं॑ ॥
अमृक्तेन रुशता वाससा हरिर् अमर्त्यो निर्णिजानः परि व्यत |
दिवस् पृष्ठम् बर्हणा निर्णिजे कृतोपस्तरणं चम्वोर् नभस्मयम् ||
ámṛktena rúśatā vā́sasā hárirámartyo nirṇijānáḥ pári vyata ǀ
diváspṛṣṭhám barháṇā nirṇíje kṛtopastáraṇam camvórnabhasmáyam ǁ
amṛktena ruśatā vāsasā harir amartyo nirṇijānaḥ pari vyata |
divas pṛṣṭham barhaṇā nirṇije kṛtopastaraṇaṃ camvor nabhasmayam ||
Padapāṭha
अमृ॑क्तेन । रुश॑ता । वास॑सा । हरिः॑ । अम॑र्त्यः । निः॒ऽनि॒जा॒नः । परि॑ । व्य॒त॒ ।
दि॒वः । पृ॒ष्ठम् । ब॒र्हणा॑ । निः॒ऽनिजे॑ । कृ॒त॒ । उ॒प॒ऽस्तर॑णम् । च॒म्वोः॑ । न॒भ॒स्मय॑म् ॥
अमृक्तेन । रुशता । वाससा । हरिः । अमर्त्यः । निःऽनिजानः । परि । व्यत ।
दिवः । पृष्ठम् । बर्हणा । निःऽनिजे । कृत । उपऽस्तरणम् । चम्वोः । नभस्मयम् ॥
ámṛktena ǀ rúśatā ǀ vā́sasā ǀ háriḥ ǀ ámartyaḥ ǀ niḥ-nijānáḥ ǀ pári ǀ vyata ǀ
diváḥ ǀ pṛṣṭhám ǀ barháṇā ǀ niḥ-níje ǀ kṛta ǀ upa-stáraṇam ǀ camvóḥ ǀ nabhasmáyam ǁ
amṛktena ǀ ruśatā ǀ vāsasā ǀ hariḥ ǀ amartyaḥ ǀ niḥ-nijānaḥ ǀ pari ǀ vyata ǀ
divaḥ ǀ pṛṣṭham ǀ barhaṇā ǀ niḥ-nije ǀ kṛta ǀ upa-staraṇam ǀ camvoḥ ǀ nabhasmayam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.069.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.2.21.05
- Maṇḍala · Anuvāka · Ṛk
- 09.04.015
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.