MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2
Select a line for its word-by-word analysis.
परमेश्वरात् प्रोक्तेन क्रमेण प्रसृतम् एतज् ज्ञानं शास्त्रं स्कन्दस्य देव्यास् तद् अन्येषां च पृथक् पृथक् श्रोतॄणां बहुत्वाद् बहुभेदत्वेन विस्तरम् अभिमतकामदत्वात् कामिकत्वेनोपदेष्टृभिर् मन्त्राणां मन्त्रेश्वराणां चेश्वरैर् मन्त्रमहेश्वरैर् अनन्तादिभिर् उपदिष्टम् ॥ (१।०)
parameśvarāt proktena krameṇa prasṛtam etaj jñānaṃ śāstraṃ skandasya devyās tad anyeṣāṃ ca pṛthak pṛthak śrotṝṇāṃ bahutvād bahubhedatvena vistaram abhimatakāmadatvāt kāmikatvenopadeṣṭṛbhir mantrāṇāṃ mantreśvarāṇāṃ ceśvarair mantramaheśvarair anantādibhir upadiṣṭam ||
तेभ्य आगमय्य कस्मै कियता ग्रन्थेन को दत्तवान् इत्य् आह ॥ (२।०)
tebhya āgamayya kasmai kiyatā granthena ko dattavān ity āha ||
Data courtesy of The Digital Corpus of Sanskrit.