Ṛgveda · Maṇḍala 9 · Sūkta 85

Ṛk 9.85.12

Soma Pavamāna · Vena Bhārgava

The whole sūkta Link

Saṃhitā

ऊ॒र्ध्वो गं॑ध॒र्वो अधि॒ नाके॑ अस्था॒द्विश्वा॑ रू॒पा प्र॑ति॒चक्षा॑णो अस्य ।
भा॒नुः शु॒क्रेण॑ शो॒चिषा॒ व्य॑द्यौ॒त्प्रारू॑रुच॒द्रोद॑सी मा॒तरा॒ शुचिः॑ ॥

ऊर्ध्वो गन्धर्वो अधि नाके अस्थाद् विश्वा रूपा प्रतिचक्षाणो अस्य |
भानुः शुक्रेण शोचिषा व्य् अद्यौत् प्रारूरुचद् रोदसी मातरा शुचिः ||

ūrdhvó gandharvó ádhi nā́ke asthādvíśvā rūpā́ praticákṣāṇo asya ǀ
bhānúḥ śukréṇa śocíṣā vyádyautprā́rūrucadródasī mātárā śúciḥ ǁ

ūrdhvo gandharvo adhi nāke asthād viśvā rūpā praticakṣāṇo asya |
bhānuḥ śukreṇa śociṣā vy adyaut prārūrucad rodasī mātarā śuciḥ ||

Padapāṭha

ऊ॒र्ध्वः । ग॒न्ध॒र्वः । अधि॑ । नाके॑ । अ॒स्था॒त् । विश्वा॑ । रू॒पा । प्र॒ति॒ऽचक्षा॑णः । अ॒स्य॒ ।
भा॒नुः । शु॒क्रेण॑ । शो॒चिषा॑ । वि । अ॒द्यौ॒त् । प्र । अ॒रू॒रु॒च॒त् । रोद॑सी॒ इति॑ । मा॒तरा॑ । शुचिः॑ ॥

ऊर्ध्वः । गन्धर्वः । अधि । नाके । अस्थात् । विश्वा । रूपा । प्रतिऽचक्षाणः । अस्य ।
भानुः । शुक्रेण । शोचिषा । वि । अद्यौत् । प्र । अरूरुचत् । रोदसी इति । मातरा । शुचिः ॥

ūrdhváḥ ǀ gandharváḥ ǀ ádhi ǀ nā́ke ǀ asthāt ǀ víśvā ǀ rūpā́ ǀ prati-cákṣāṇaḥ ǀ asya ǀ
bhānúḥ ǀ śukréṇa ǀ śocíṣā ǀ ví ǀ adyaut ǀ prá ǀ arūrucat ǀ ródasī íti ǀ mātárā ǀ śúciḥ ǁ

ūrdhvaḥ ǀ gandharvaḥ ǀ adhi ǀ nāke ǀ asthāt ǀ viśvā ǀ rūpā ǀ prati-cakṣāṇaḥ ǀ asya ǀ
bhānuḥ ǀ śukreṇa ǀ śociṣā ǀ vi ǀ adyaut ǀ pra ǀ arūrucat ǀ rodasī iti ǀ mātarā ǀ śuciḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
09.085.12
Aṣṭaka · Adhyāya · Varga · Ṛk
7.3.11.07
Maṇḍala · Anuvāka · Ṛk
09.04.128
Devatā देवता
Soma Pavamāna
Ṛṣi ऋषि
Vena Bhārgava
Chandas छन्दस्
Jagatī, Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 9.85.12

Interpretations

Sāyaṇa

अथपंचमेचानुवाके एकादशसूक्तानि तत्र प्रतइत्यष्टाचत्वारिंशदृचं प्रथमंसूक्तं । प्रथम- दशर्चस्य आकृष्टाइतिमाषाइतिच द्विनामानऋषिगणाद्रष्टारः । द्वितीयस्यदशर्चस्य सिकता- इति निवावरीइति द्विनामानऋषिगणाद्रष्टारः । द्वितीयस्यदशर्चस्य सिकताइति निवावरी- इति द्विनामानऋषिगणाः । तृतीयस्यदशर्चस्य पृश्नयइतिअजाइतिचनामद्वयोपेताऋषिगणाः । अदृष्टार्थमेषांद्विनामत्वमवगंतव्यं । चतुर्थस्यदशर्चस्य आकृष्टामाषाइत्यादिद्विनामानस्त्रयोग- णाःद्रष्टारः । आत्रेयइतिनामानमुनयोगणद्रष्टारः । एवंचत्वारिंशाद्वताः अथपंचानांभौमो- त्रिरृषिः ततस्तिसृणांगृत्समदः । जगतीछन्दः पवमानसोमोदेवता । तथाचानुक्रान्तं—प्रतेष्टा- चत्वारिंशदृषिगणादशर्चा आकृष्टामाशाःप्रथमे सिकतानिवावरीद्वितिये पृश्नयोऽजास्तृतीये त्रयश्चतुर्थेत्रिः पंचान्त्यास्तिस्रोगृत्र्समदइति । गतोविनियोगः ।