Ṛgveda · Maṇḍala 9 · Sūkta 106

Ṛk 9.106.14

Soma Pavamāna · 1-3, 10-14: Agni Cakṣuṣa; 4-6: Cakṣus Mānava; 7-9: Manu Āpsava

The whole sūkta Link

Saṃhitā

अ॒या प॑वस्व देव॒युर्मधो॒र्धारा॑ असृक्षत ।
रेभ॑न्प॒वित्रं॒ पर्ये॑षि वि॒श्वतः॑ ॥

अया पवस्व देवयुर् मधोर् धारा असृक्षत |
रेभन् पवित्रम् पर्य् एषि विश्वतः ||

ayā́ pavasva devayúrmádhordhā́rā asṛkṣata ǀ
rébhanpavítram páryeṣi viśvátaḥ ǁ

ayā pavasva devayur madhor dhārā asṛkṣata |
rebhan pavitram pary eṣi viśvataḥ ||

Padapāṭha

अ॒या । प॒व॒स्व॒ । दे॒व॒ऽयुः । मधोः॑ । धाराः॑ । अ॒सृ॒क्ष॒त॒ ।
रेभ॑न् । प॒वित्र॑म् । परि॑ । ए॒षि॒ । वि॒श्वतः॑ ॥

अया । पवस्व । देवऽयुः । मधोः । धाराः । असृक्षत ।
रेभन् । पवित्रम् । परि । एषि । विश्वतः ॥

ayā́ ǀ pavasva ǀ deva-yúḥ ǀ mádhoḥ ǀ dhā́rāḥ ǀ asṛkṣata ǀ
rébhan ǀ pavítram ǀ pári ǀ eṣi ǀ viśvátaḥ ǁ

ayā ǀ pavasva ǀ deva-yuḥ ǀ madhoḥ ǀ dhārāḥ ǀ asṛkṣata ǀ
rebhan ǀ pavitram ǀ pari ǀ eṣi ǀ viśvataḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
09.106.14
Aṣṭaka · Adhyāya · Varga · Ṛk
7.5.11.04
Maṇḍala · Anuvāka · Ṛk
09.07.026
Devatā देवता
Soma Pavamāna
Ṛṣi ऋषि
1-3, 10-14: Agni Cakṣuṣa; 4-6: Cakṣus Mānava; 7-9: Manu Āpsava
Chandas छन्दस्
Uṣṇih
Svara स्वरः
ऋषभः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 9.106.14

Interpretations

Sāyaṇa

परीतइति षड्विंशत्यृचंचतुर्थं सूक्तं । त्वंसोमासीत्यत्रउक्ताभरद्वाजकश्यपाद्याः सप्तर्षयः । आद्याबृहती द्वितीयासतोबृहती अयमेकः प्रगाथः परिसुवानइत्येषा तृतीया एकविंशत्यक्ष- रा भुरिक् विराट् द्विपदा नृभिर्येमानइति षोडशो विंशत्यक्षराद्विपदाविराट् चतुर्थ्यादिद्वौ प्र- गाथौ दशम्यादित्रयः सप्तदश्यादिपंचप्रगाथाः पवमानसोमोदवता । तथाचानुक्रम्यते—परितः षड्विंशतिः सप्तऋषयः प्रागाथं तृतीयाषोडश्यौ द्विपदे अष्टम्याद्येबृहत्याविति । गतः सूक्तविनियोगः ।