Ṛgveda · Maṇḍala 9 · Sūkta 101

Ṛk 9.101.16

Soma Pavamāna · 1-3: Andhīgu Śyāvāśvi; 4-6: Yayāti Nāhuṣa; 7-9: Nahuṣa Mānava; 10-12: Manu Sāṃvaraṇa; 13-16: Prajāpati

The whole sūkta Link

Saṃhitā

अव्यो॒ वारे॑भिः पवते॒ सोमो॒ गव्ये॒ अधि॑ त्व॒चि ।
कनि॑क्रद॒द्वृषा॒ हरि॒रिंद्र॑स्या॒भ्ये॑ति निष्कृ॒तं ॥

अव्यो वारेभिः पवते सोमो गव्ये अधि त्वचि |
कनिक्रदद् वृषा हरिर् इन्द्रस्याभ्य् एति निष्कृतम् ||

ávyo vā́rebhiḥ pavate sómo gávye ádhi tvací ǀ
kánikradadvṛ́ṣā háriríndrasyābhyeti niṣkṛtám ǁ

avyo vārebhiḥ pavate somo gavye adhi tvaci |
kanikradad vṛṣā harir indrasyābhy eti niṣkṛtam ||

Padapāṭha

अव्यः॑ । वारे॑भिः । प॒व॒ते॒ । सोमः॑ । गव्ये॑ । अधि॑ । त्व॒चि ।
कनि॑क्रदत् । वृषा॑ । हरिः । इन्द्र॑स्य । अ॒भि । ए॒ति॒ । निः॒ऽकृ॒तम् ॥

अव्यः । वारेभिः । पवते । सोमः । गव्ये । अधि । त्वचि ।
कनिक्रदत् । वृषा । हरिः । इन्द्रस्य । अभि । एति । निःऽकृतम् ॥

ávyaḥ ǀ vā́rebhiḥ ǀ pavate ǀ sómaḥ ǀ gávye ǀ ádhi ǀ tvací ǀ
kánikradat ǀ vṛ́ṣā ǀ háríḥ ǀ índrasya ǀ abhí ǀ eti ǀ niḥ-kṛtám ǁ

avyaḥ ǀ vārebhiḥ ǀ pavate ǀ somaḥ ǀ gavye ǀ adhi ǀ tvaci ǀ
kanikradat ǀ vṛṣā ǀ hariḥ ǀ indrasya ǀ abhi ǀ eti ǀ niḥ-kṛtam ǁ

References

Maṇḍala · Sūkta · Ṛk
09.101.16
Aṣṭaka · Adhyāya · Varga · Ṛk
7.5.03.06
Maṇḍala · Anuvāka · Ṛk
09.06.103
Devatā देवता
Soma Pavamāna
Ṛṣi ऋषि
1-3: Andhīgu Śyāvāśvi; 4-6: Yayāti Nāhuṣa; 7-9: Nahuṣa Mānava; 10-12: Manu Sāṃvaraṇa; 13-16: Prajāpati
Chandas छन्दस्
Anuṣṭubh, Gāyatrī
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 9.101.16

Interpretations

Sāyaṇa

क्राणाशिशुरित्यष्टर्चं षष्ठं सूक्तं । आप्त्यस्य त्रितस्यार्षं । इदमुत्तराणि चत्वारिसूक्तानि औष्णिहानि । पवमानः सोमोदेवता । तथाचानुक्रम्यते—क्राणाष्टौत्रितऔष्णिहंवैइति । गतो- विनियोगः ।