Ṛk 9.65.8
Saṃhitā
यस्य॒ वर्णं॑ मधु॒श्चुतं॒ हरिं॑ हि॒न्वंत्यद्रि॑भिः ।
इंदु॒मिंद्रा॑य पी॒तये॑ ॥
यस्य वर्णम् मधुश्चुतं हरिं हिन्वन्त्य् अद्रिभिः |
इन्दुम् इन्द्राय पीतये ||
yásya várṇam madhuścútam hárim hinvántyádribhiḥ ǀ
índumíndrāya pītáye ǁ
yasya varṇam madhuścutaṃ hariṃ hinvanty adribhiḥ |
indum indrāya pītaye ||
Padapāṭha
यस्य॑ । वर्ण॑म् । म॒धु॒ऽश्चुत॑म् । हरि॑म् । हि॒न्वन्ति॑ । अद्रि॑ऽभिः ।
इन्दु॑म् । इन्द्रा॑य । पी॒तये॑ ॥
यस्य । वर्णम् । मधुऽश्चुतम् । हरिम् । हिन्वन्ति । अद्रिऽभिः ।
इन्दुम् । इन्द्राय । पीतये ॥
yásya ǀ várṇam ǀ madhu-ścútam ǀ hárim ǀ hinvánti ǀ ádri-bhiḥ ǀ
índum ǀ índrāya ǀ pītáye ǁ
yasya ǀ varṇam ǀ madhu-ścutam ǀ harim ǀ hinvanti ǀ adri-bhiḥ ǀ
indum ǀ indrāya ǀ pītaye ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.065.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.2.02.03
- Maṇḍala · Anuvāka · Ṛk
- 09.03.128
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Bhṛgu Vāruṇi Or Jamadagni Bhārgava
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.