Ṛk 9.96.20
Saṃhitā
मर्यो॒ न शु॒भ्रस्त॒न्वं॑ मृजा॒नोऽत्यो॒ न सृत्वा॑ स॒नये॒ धना॑नां ।
वृषे॑व यू॒था परि॒ कोश॒मर्ष॒न्कनि॑क्रदच्च॒म्वो॒३॒॑रा वि॑वेश ॥
मर्यो न शुभ्रस् तन्वम् मृजानो ऽत्यो न सृत्वा सनये धनानाम् |
वृषेव यूथा परि कोशम् अर्षन् कनिक्रदच् चम्वोर् आ विवेश ||
máryo ná śubhrástanvám mṛjānó’tyo ná sṛ́tvā sanáye dhánānām ǀ
vṛ́ṣeva yūthā́ pári kóśamárṣankánikradaccamvórā́ viveśa ǁ
maryo na śubhras tanvam mṛjāno 'tyo na sṛtvā sanaye dhanānām |
vṛṣeva yūthā pari kośam arṣan kanikradac camvor ā viveśa ||
Padapāṭha
मर्यः॑ । न । शु॒भ्रः । त॒न्व॑म् । मृ॒जा॒नः । अत्यः॑ । न । सृत्वा॑ । स॒नये॑ । धना॑नाम् ।
वृषा॑ऽइव । यू॒था । परि॑ । कोश॑म् । अर्ष॑न् । कनि॑क्रदत् । च॒म्वोः॑ । आ । वि॒वे॒श॒ ॥
मर्यः । न । शुभ्रः । तन्वम् । मृजानः । अत्यः । न । सृत्वा । सनये । धनानाम् ।
वृषाऽइव । यूथा । परि । कोशम् । अर्षन् । कनिक्रदत् । चम्वोः । आ । विवेश ॥
máryaḥ ǀ ná ǀ śubhráḥ ǀ tanvám ǀ mṛjānáḥ ǀ átyaḥ ǀ ná ǀ sṛ́tvā ǀ sanáye ǀ dhánānām ǀ
vṛ́ṣā-iva ǀ yūthā́ ǀ pári ǀ kóśam ǀ árṣan ǀ kánikradat ǀ camvóḥ ǀ ā́ ǀ viveśa ǁ
maryaḥ ǀ na ǀ śubhraḥ ǀ tanvam ǀ mṛjānaḥ ǀ atyaḥ ǀ na ǀ sṛtvā ǀ sanaye ǀ dhanānām ǀ
vṛṣā-iva ǀ yūthā ǀ pari ǀ kośam ǀ arṣan ǀ kanikradat ǀ camvoḥ ǀ ā ǀ viveśa ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.096.20
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.4.09.05
- Maṇḍala · Anuvāka · Ṛk
- 09.05.125
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Pratardana Daivodāsi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.