Ṛk 9.96.1
Saṃhitā
प्र से॑ना॒नीः शूरो॒ अग्रे॒ रथा॑नां ग॒व्यन्ने॑ति॒ हर्ष॑ते अस्य॒ सेना॑ ।
भ॒द्रान्कृ॒ण्वन्निं॑द्रह॒वान्त्सखि॑भ्य॒ आ सोमो॒ वस्त्रा॑ रभ॒सानि॑ दत्ते ॥
प्र सेनानीः शूरो अग्रे रथानां गव्यन्न् एति हर्षते अस्य सेना |
भद्रान् कृण्वन्न् इन्द्रहवान् सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ||
prá senānī́ḥ śū́ro ágre ráthānām gavyánneti hárṣate asya sénā ǀ
bhadrā́nkṛṇvánnindrahavā́ntsákhibhya ā́ sómo vástrā rabhasā́ni datte ǁ
pra senānīḥ śūro agre rathānāṃ gavyann eti harṣate asya senā |
bhadrān kṛṇvann indrahavān sakhibhya ā somo vastrā rabhasāni datte ||
Padapāṭha
प्र । से॒ना॒ऽनीः । शूरः॑ । अग्रे॑ । रथा॑नाम् । ग॒व्यन् । ए॒ति॒ । हर्ष॑ते । अ॒स्य॒ । सेना॑ ।
भ॒द्रान् । कृ॒ण्वन् । इ॒न्द्र॒ऽह॒वान् । सखि॑ऽभ्यः । आ । सोमः॑ । वस्त्रा॑ । र॒भ॒सानि॑ । द॒त्ते॒ ॥
प्र । सेनाऽनीः । शूरः । अग्रे । रथानाम् । गव्यन् । एति । हर्षते । अस्य । सेना ।
भद्रान् । कृण्वन् । इन्द्रऽहवान् । सखिऽभ्यः । आ । सोमः । वस्त्रा । रभसानि । दत्ते ॥
prá ǀ senā-nī́ḥ ǀ śū́raḥ ǀ ágre ǀ ráthānām ǀ gavyán ǀ eti ǀ hárṣate ǀ asya ǀ sénā ǀ
bhadrā́n ǀ kṛṇván ǀ indra-havā́n ǀ sákhi-bhyaḥ ǀ ā́ ǀ sómaḥ ǀ vástrā ǀ rabhasā́ni ǀ datte ǁ
pra ǀ senā-nīḥ ǀ śūraḥ ǀ agre ǀ rathānām ǀ gavyan ǀ eti ǀ harṣate ǀ asya ǀ senā ǀ
bhadrān ǀ kṛṇvan ǀ indra-havān ǀ sakhi-bhyaḥ ǀ ā ǀ somaḥ ǀ vastrā ǀ rabhasāni ǀ datte ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.096.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.4.06.01
- Maṇḍala · Anuvāka · Ṛk
- 09.05.106
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Pratardana Daivodāsi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.