Ṛk 9.96.22
Saṃhitā
प्रास्य॒ धारा॑ बृह॒तीर॑सृग्रन्न॒क्तो गोभिः॑ क॒लशाँ॒ आ वि॑वेश ।
साम॑ कृ॒ण्वन्त्सा॑म॒न्यो॑ विप॒श्चित्क्रंद॑न्नेत्य॒भि सख्यु॒र्न जा॒मिं ॥
प्रास्य धारा बृहतीर् असृग्रन्न् अक्तो गोभिः कलशां आ विवेश |
साम कृण्वन् सामन्यो विपश्चित् क्रन्दन्न् एत्य् अभि सख्युर् न जामिम् ||
prā́sya dhā́rā bṛhatī́rasṛgrannaktó góbhiḥ kaláśām̐ ā́ viveśa ǀ
sā́ma kṛṇvántsāmanyó vipaścítkrándannetyabhí sákhyurná jāmím ǁ
prāsya dhārā bṛhatīr asṛgrann akto gobhiḥ kalaśāṃ ā viveśa |
sāma kṛṇvan sāmanyo vipaścit krandann ety abhi sakhyur na jāmim ||
Padapāṭha
प्र । अ॒स्य॒ । धाराः॑ । बृ॒ह॒तीः । अ॒सृ॒ग्र॒न् । अ॒क्तः । गोभिः॑ । क॒लशा॑न् । आ । वि॒वे॒श॒ ।
साम॑ । कृ॒ण्वन् । सा॒म॒न्यः॑ । वि॒पः॒ऽचित् । क्रन्द॑न् । ए॒ति॒ । अ॒भि । सख्युः॑ । न । जा॒मिम् ॥
प्र । अस्य । धाराः । बृहतीः । असृग्रन् । अक्तः । गोभिः । कलशान् । आ । विवेश ।
साम । कृण्वन् । सामन्यः । विपःऽचित् । क्रन्दन् । एति । अभि । सख्युः । न । जामिम् ॥
prá ǀ asya ǀ dhā́rāḥ ǀ bṛhatī́ḥ ǀ asṛgran ǀ aktáḥ ǀ góbhiḥ ǀ kaláśān ǀ ā́ ǀ viveśa ǀ
sā́ma ǀ kṛṇván ǀ sāmanyáḥ ǀ vipaḥ-cít ǀ krándan ǀ eti ǀ abhí ǀ sákhyuḥ ǀ ná ǀ jāmím ǁ
pra ǀ asya ǀ dhārāḥ ǀ bṛhatīḥ ǀ asṛgran ǀ aktaḥ ǀ gobhiḥ ǀ kalaśān ǀ ā ǀ viveśa ǀ
sāma ǀ kṛṇvan ǀ sāmanyaḥ ǀ vipaḥ-cit ǀ krandan ǀ eti ǀ abhi ǀ sakhyuḥ ǀ na ǀ jāmim ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.096.22
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.4.10.02
- Maṇḍala · Anuvāka · Ṛk
- 09.05.127
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Pratardana Daivodāsi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.