Ṛk 9.96.8
Saṃhitā
स म॑त्स॒रः पृ॒त्सु व॒न्वन्नवा॑तः स॒हस्र॑रेता अ॒भि वाज॑मर्ष ।
इंद्रा॑येंदो॒ पव॑मानो मनी॒ष्यं१॒॑शोरू॒र्मिमी॑रय॒ गा इ॑ष॒ण्यन् ॥
स मत्सरः पृत्सु वन्वन्न् अवातः सहस्ररेता अभि वाजम् अर्ष |
इन्द्रायेन्दो पवमानो मनीष्य् अंशोर् ऊर्मिम् ईरय गा इषण्यन् ||
sá matsaráḥ pṛtsú vanvánnávātaḥ sahásraretā abhí vā́jamarṣa ǀ
índrāyendo pávamāno manīṣyáṃśórūrmímīraya gā́ iṣaṇyán ǁ
sa matsaraḥ pṛtsu vanvann avātaḥ sahasraretā abhi vājam arṣa |
indrāyendo pavamāno manīṣy aṃśor ūrmim īraya gā iṣaṇyan ||
Padapāṭha
सः । म॒त्स॒रः । पृ॒त्ऽसु । व॒न्वन् । अवा॑तः । स॒हस्र॑ऽरेताः । अ॒भि । वाज॑म् । अ॒र्ष॒ ।
इन्द्रा॑य । इ॒न्दो॒ इति॑ । पव॑मानः । म॒नी॒षी । अं॒शोः । ऊ॒र्मिम् । ई॒र॒य॒ । गाः । इ॒ष॒ण्यन् ॥
सः । मत्सरः । पृत्ऽसु । वन्वन् । अवातः । सहस्रऽरेताः । अभि । वाजम् । अर्ष ।
इन्द्राय । इन्दो इति । पवमानः । मनीषी । अंशोः । ऊर्मिम् । ईरय । गाः । इषण्यन् ॥
sáḥ ǀ matsaráḥ ǀ pṛt-sú ǀ vanván ǀ ávātaḥ ǀ sahásra-retāḥ ǀ abhí ǀ vā́jam ǀ arṣa ǀ
índrāya ǀ indo íti ǀ pávamānaḥ ǀ manīṣī́ ǀ aṃśóḥ ǀ ūrmím ǀ īraya ǀ gā́ḥ ǀ iṣaṇyán ǁ
saḥ ǀ matsaraḥ ǀ pṛt-su ǀ vanvan ǀ avātaḥ ǀ sahasra-retāḥ ǀ abhi ǀ vājam ǀ arṣa ǀ
indrāya ǀ indo iti ǀ pavamānaḥ ǀ manīṣī ǀ aṃśoḥ ǀ ūrmim ǀ īraya ǀ gāḥ ǀ iṣaṇyan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.096.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.4.07.03
- Maṇḍala · Anuvāka · Ṛk
- 09.05.113
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Pratardana Daivodāsi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.