GarPur, 1, 10
Select a line for its word-by-word analysis.
र्श्यादिपूजां प्रवर्श्यामि स्थण्डिलादिषु सिद्धये । (१।२)
rśyādipūjāṃ pravarśyāmi sthaṇḍilādiṣu siddhaye |
श्रां श्रीं श्रूं श्रैं श्रौं श्रः क्रमाद्धृदयं च शिरः शिखाम् । (१।४)
śrāṃ śrīṃ śrūṃ śraiṃ śrauṃ śraḥ kramāddhṛdayaṃ ca śiraḥ śikhām |
कवचं नेत्रमस्त्रं च आसनं मूर्तिमर्चयेत् ॥ (१।५)
kavacaṃ netramastraṃ ca āsanaṃ mūrtimarcayet ||
मण्डले पद्मगर्भे च चतुर्द्वारि रजोऽन्विते । (२।१)
maṇḍale padmagarbhe ca caturdvāri rajo'nvite |
चतुःषष्ट्यन्तमष्टादि खाक्षे खाक्ष्यादि मण्डलम् ॥ (२।२)
catuḥṣaṣṭyantamaṣṭādi khākṣe khākṣyādi maṇḍalam ||
खाक्षीन्दुसूर्यगं सर्वं खादिवेदेन्दुवर्तनात् । (३।१)
khākṣīndusūryagaṃ sarvaṃ khādivedenduvartanāt |
लक्ष्मीमङ्गानि चैकस्मिन्कोणे दुर्गां गणं गुरुम् ॥ (३।२)
lakṣmīmaṅgāni caikasminkoṇe durgāṃ gaṇaṃ gurum ||
क्षेत्रपालमथाग्न्यादौ होमाञ्जुहाव कामभाक् । (४।१)
kṣetrapālamathāgnyādau homāñjuhāva kāmabhāk |
ॐ ह्रीं वदवदवाग्वादिनिस्वाहा ॐ ह्रीं सरस्वत्यै नमः ॥ (६।१)
oṃ hrīṃ vadavadavāgvādinisvāhā oṃ hrīṃ sarasvatyai namaḥ ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे लक्ष्म्यर्चननिरूपणं नाम दशमो ऽध्यायः ॥ (७।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe lakṣmyarcananirūpaṇaṃ nāma daśamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.