गरुडपुराणGaruḍapurāṇa

GarPur, 1, 129

126 of 166 · 68 verses

Select a line for its word-by-word analysis.

1.1१.१

ब्रह्मोवाच । (१।१)

brahmovāca |

1.2१.२

वक्ष्ये प्रतिपदादीनि व्रतानि व्यास शृण्वथ । (१।२)

vakṣye pratipadādīni vratāni vyāsa śṛṇvatha |

1.3१.३

वैश्वानरपदं याति शिखिव्रतमिदं स्मृतम् ॥ (१।३)

vaiśvānarapadaṃ yāti śikhivratamidaṃ smṛtam ||

2.1२.१

प्रतिपद्येकभक्ताशी समाप्ते कपिलाप्रदः । (२।१)

pratipadyekabhaktāśī samāpte kapilāpradaḥ |

2.2२.२

चैत्रादौ कारयेच्चैव ब्रह्मपूजां यथाविधि । (२।२)

caitrādau kārayeccaiva brahmapūjāṃ yathāvidhi |

2.3२.३

गन्धपुष्पार्चनैर् दानैर् माल्याद्यैश्च मनोरमैः ॥ (२।३)

gandhapuṣpārcanair dānair mālyādyaiśca manoramaiḥ ||

3.1३.१

सहोमैः पूजयेद्देवं सर्वान्कामानवाप्नुयात् । (३।१)

sahomaiḥ pūjayeddevaṃ sarvānkāmānavāpnuyāt |

3.2३.२

कार्तिके त सिते ऽष्टम्यां पुष्पहारी च वत्सरम् ॥ (३।२)

kārtike ta site 'ṣṭamyāṃ puṣpahārī ca vatsaram ||

4.1४.१

पुष्पादिदाता रूपेण रूपभागी भवेन्नरः । (४।१)

puṣpādidātā rūpeṇa rūpabhāgī bhavennaraḥ |

4.2४.२

कृष्णपक्षे तृतीयायां श्रावणे श्रीधरं श्रिया ॥ (४।२)

kṛṣṇapakṣe tṛtīyāyāṃ śrāvaṇe śrīdharaṃ śriyā ||

5.1५.१

यजेदशून्यशय्यायां फलं दद्याद्द्विजातये । (५।१)

yajedaśūnyaśayyāyāṃ phalaṃ dadyāddvijātaye |

5.2५.२

शय्यां दत्त्वा प्रार्थयेच्च श्रीधराय नमः श्रियै ॥ (५।२)

śayyāṃ dattvā prārthayecca śrīdharāya namaḥ śriyai ||

6.1६.१

उमां शिवं हुताशं च तृतीयायां च पूजयेत् । (६।१)

umāṃ śivaṃ hutāśaṃ ca tṛtīyāyāṃ ca pūjayet |

6.2६.२

हविष्यम् अन्नं नैवेद्यं देयं दमनकं तथा ॥ (६।२)

haviṣyam annaṃ naivedyaṃ deyaṃ damanakaṃ tathā ||

7.1७.१

चैत्रादौ फलमाप्नोति उमया मे प्रभाषितम् । (७।१)

caitrādau phalamāpnoti umayā me prabhāṣitam |

7.2७.२

फाल्गुनादितृतीयायां लवणं यस्तु वर्जयेत् ॥ (७।२)

phālgunāditṛtīyāyāṃ lavaṇaṃ yastu varjayet ||

8.1८.१

समाप्ते शयनं दद्याद्गृहं चोपस्करान्वितम् । (८।१)

samāpte śayanaṃ dadyādgṛhaṃ copaskarānvitam |

8.2८.२

सम्पूज्य विप्रमिथनं भवानी प्रीयतामिति ॥ (८।२)

sampūjya vipramithanaṃ bhavānī prīyatāmiti ||

9.1९.१

गौरीलोके वसेन्नित्यं सौभाग्यकरमुत्तमम् । (९।१)

gaurīloke vasennityaṃ saubhāgyakaramuttamam |

9.2९.२

गौरी काली उमा भद्रा दुर्गा कान्तिः सरस्वती ॥ (९।२)

gaurī kālī umā bhadrā durgā kāntiḥ sarasvatī ||

10.1१०.१

मङ्गला वैष्णवी लक्ष्मीः शिवा नारायणी क्रमात् । (१०।१)

maṅgalā vaiṣṇavī lakṣmīḥ śivā nārāyaṇī kramāt |

10.2१०.२

मार्गे तृतीयामारभ्य अवियोगादिम् आप्नुयात् ॥ (१०।२)

mārge tṛtīyāmārabhya aviyogādim āpnuyāt ||

11.1११.१

चतुर्थ्यां सितमाघादौ निराहारो व्रतान्वितः । (११।१)

caturthyāṃ sitamāghādau nirāhāro vratānvitaḥ |

11.2११.२

दत्त्वा तिलांस्तु विप्राय स्वयं भुङ्क्ते तिलोदकम् ॥ (११।२)

dattvā tilāṃstu viprāya svayaṃ bhuṅkte tilodakam ||

12.1१२.१

वर्षद्वये समाप्तिश्च निर्विघ्नादिं समाप्नुयात् । (१२।१)

varṣadvaye samāptiśca nirvighnādiṃ samāpnuyāt |

12.2१२.२

गः स्वाहा मूलमन्त्रो ऽयं प्रणवेन समन्वितः ॥ (१२।२)

gaḥ svāhā mūlamantro 'yaṃ praṇavena samanvitaḥ ||

13.1१३.१

ग्लैं ग्लां हृदये गां गीं हूं ह्रीं ह्रीं शिरः शिखा । (१३।१)

glaiṃ glāṃ hṛdaye gāṃ gīṃ hūṃ hrīṃ hrīṃ śiraḥ śikhā |

13.2१३.२

गूं वर्म ग्ॐ च गैं नेत्रं ग्ॐ च आवाहनादिषु ॥ (१३।२)

gūṃ varma goṃ ca gaiṃ netraṃ goṃ ca āvāhanādiṣu ||

14.1१४.१

आगच्छोल्काय गनन्धोल्कः पुष्पोल्को धूपकोल्ककः । (१४।१)

āgaccholkāya ganandholkaḥ puṣpolko dhūpakolkakaḥ |

14.2१४.२

दीपोल्काय महोल्काय बलिश्चाथ विसजनम् ॥ (१४।२)

dīpolkāya maholkāya baliścātha visajanam ||

15.1१५.१

सिदेधोल्काय च गायत्त्री न्यासोङ्गुष्ठादिर् ईरितः । (१५।१)

sidedholkāya ca gāyattrī nyāsoṅguṣṭhādir īritaḥ |

15.2१५.२

ॐ महाकर्णाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् ॥ (१५।२)

oṃ mahākarṇāya vidmahe vakratuṇḍāya dhīmahi tanno dantiḥ pracodayāt ||

16.1१६.१

पूजयेत् तिलहोमैश्च एते पूज्या गणास्तथा । (१६।१)

pūjayet tilahomaiśca ete pūjyā gaṇāstathā |

16.2१६.२

गणाय गणपतये स्वाहा कूष्माण्डकाय च ॥ (१६।२)

gaṇāya gaṇapataye svāhā kūṣmāṇḍakāya ca ||

17.1१७.१

अमोघोल्कायैकदन्ताय त्रिपुरान्तकरूपिणे । (१७।१)

amogholkāyaikadantāya tripurāntakarūpiṇe |

17.2१७.२

ॐ श्यामदन्तविकरालास्याहवेपाय वै नमः ॥ (१७।२)

oṃ śyāmadantavikarālāsyāhavepāya vai namaḥ ||

18.1१८.१

पद्मदंष्ट्राय स्वाहान्ते मुद्रा वै नर्तनं गणे । (१८।१)

padmadaṃṣṭrāya svāhānte mudrā vai nartanaṃ gaṇe |

18.2१८.२

हस्ततालश्च हसनं सौभाग्यादिफलं भवेत् ॥ (१८।२)

hastatālaśca hasanaṃ saubhāgyādiphalaṃ bhavet ||

19.1१९.१

मार्गशीर्षे तथा शुक्लचतुर्थ्यां पूजयेद् गणम् । (१९।१)

mārgaśīrṣe tathā śuklacaturthyāṃ pūjayed gaṇam |

19.2१९.२

अब्दं प्राप्नोति विद्याश्रीकीर्त्यायुःपुत्रसन्ततिम् ॥ (१९।२)

abdaṃ prāpnoti vidyāśrīkīrtyāyuḥputrasantatim ||

20.1२०.१

सोमवारे चतुर्थ्यां च समुपोष्यार्चयेद्गणम् । (२०।१)

somavāre caturthyāṃ ca samupoṣyārcayedgaṇam |

20.2२०.२

जपञ्जुह्वत्स्मरन्विद्या स्वर्गं निर्वाणतां व्रजेत् ॥ (२०।२)

japañjuhvatsmaranvidyā svargaṃ nirvāṇatāṃ vrajet ||

21.1२१.१

यजेच्छुक्लचतुर्थ्यां यः खण्डलड्डुकमोदकैः । (२१।१)

yajecchuklacaturthyāṃ yaḥ khaṇḍalaḍḍukamodakaiḥ |

21.2२१.२

विघ्नाचनेन सर्वान्स कामान्सौभाग्यमाप्नुयात् ॥ (२१।२)

vighnācanena sarvānsa kāmānsaubhāgyamāpnuyāt ||

22.1२२.१

पुत्रादिकं दमनकैर्दमनाख्या चतुर्थ्यपि । (२२।१)

putrādikaṃ damanakairdamanākhyā caturthyapi |

22.2२२.२

आं गणपतये नमः चतुर्थ्यन्तं यजेद्गणम् ॥ (२२।२)

āṃ gaṇapataye namaḥ caturthyantaṃ yajedgaṇam ||

23.1२३.१

मासे तु यस्मिन्कस्मिंश्चिज्जुहुयाद्वा जपेत्स्मरेत् । (२३।१)

māse tu yasminkasmiṃścijjuhuyādvā japetsmaret |

23.2२३.२

सर्वान्कामानवाप्नोति सर्वविघ्नविनाशनम् ॥ (२३।२)

sarvānkāmānavāpnoti sarvavighnavināśanam ||

24.1२४.१

विनायकं मूर्तिकाद्यं यजेदेभिश्च नामभिः । (२४।१)

vināyakaṃ mūrtikādyaṃ yajedebhiśca nāmabhiḥ |

24.2२४.२

सो ऽपि सद्गतिमाप्नोति स्वर्गमोक्षसुखानि च ॥ (२४।२)

so 'pi sadgatimāpnoti svargamokṣasukhāni ca ||

25.1२५.१

गणपूज्यो वक्रतुण्ड एकदंष्ट्री त्रियम्बकः । (२५।१)

gaṇapūjyo vakratuṇḍa ekadaṃṣṭrī triyambakaḥ |

25.2२५.२

नीलग्रीवो लम्बोदरो विकटो विघ्नराजकः ॥ (२५।२)

nīlagrīvo lambodaro vikaṭo vighnarājakaḥ ||

26.1२६.१

धूम्रवर्णो भालचन्द्रो दशमस्त विनायकः । (२६।१)

dhūmravarṇo bhālacandro daśamasta vināyakaḥ |

26.2२६.२

गणपतिर्हस्तिमुखो द्वादशारे यजेद्गणम् ॥ (२६।२)

gaṇapatirhastimukho dvādaśāre yajedgaṇam ||

27.1२७.१

पृथक् समस्तं मधावी सर्वान्कामानवाप्नुयात् । (२७।१)

pṛthak samastaṃ madhāvī sarvānkāmānavāpnuyāt |

27.2२७.२

श्रावणे चाश्विने भाद्रे पञ्चम्यां कात्तिक शुभे ॥ (२७।२)

śrāvaṇe cāśvine bhādre pañcamyāṃ kāttika śubhe ||

28.1२८.१

वासुकिस्तक्षकश्चैव कालीयो मणिभद्रकः । (२८।१)

vāsukistakṣakaścaiva kālīyo maṇibhadrakaḥ |

28.2२८.२

ऐरावतो धृतराष्ट्रः कर्कोटकधनञ्जयौ ॥ (२८।२)

airāvato dhṛtarāṣṭraḥ karkoṭakadhanañjayau ||

29.1२९.१

घृताद्यैः स्नापिता ह्येते आयुरारोग्यसम्पदः । (२९।१)

ghṛtādyaiḥ snāpitā hyete āyurārogyasampadaḥ |

29.2२९.२

अनन्तं वासुकिं शङ्खं पद्मं कम्बलमेव च ॥ (२९।२)

anantaṃ vāsukiṃ śaṅkhaṃ padmaṃ kambalameva ca ||

30.1३०.१

तथा कर्कोटकं नागं धृतराष्ट्रं च शङ्खकम् । (३०।१)

tathā karkoṭakaṃ nāgaṃ dhṛtarāṣṭraṃ ca śaṅkhakam |

30.2३०.२

कालीयं तक्षकं चैव पिङ्गलं मासि मासि च ॥ (३०।२)

kālīyaṃ takṣakaṃ caiva piṅgalaṃ māsi māsi ca ||

31.1३१.१

यजेद्भाद्रसिते नागानष्टौ मुक्तिं दिवं व्रजेत् । (३१।१)

yajedbhādrasite nāgānaṣṭau muktiṃ divaṃ vrajet |

31.2३१.२

द्वारस्योभयतो लेख्याः श्रावणे तु सिते यजेत् ॥ (३१।२)

dvārasyobhayato lekhyāḥ śrāvaṇe tu site yajet ||

32.1३२.१

पञ्चम्यां पूजयेन्नागान् अनन्ताद्यान् महोरगान् । (३२।१)

pañcamyāṃ pūjayennāgān anantādyān mahoragān |

32.2३२.२

क्षीरं सर्पिश्च नैवेद्यं देयं सर्वविषापहम् । (३२।२)

kṣīraṃ sarpiśca naivedyaṃ deyaṃ sarvaviṣāpaham |

32.3३२.३

नागा अभयहस्ताश्च दष्टोद्धारा तु पञ्चमी ॥ (३२।३)

nāgā abhayahastāśca daṣṭoddhārā tu pañcamī ||

33.1३३.१

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे दष्टोद्धारपञ्चमव्रितं नामैकोनत्रिंशोत्तरशततमो ऽध्यायः ॥ (३३।१)

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe daṣṭoddhārapañcamavritaṃ nāmaikonatriṃśottaraśatatamo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

GarPur, 1, 129

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit