GarPur, 1, 117
Select a line for its word-by-word analysis.
मल्लिकाजं दन्तकाष्ठं धुत्तूरैः पूजयेच्छिवम् ॥ (१।३)
mallikājaṃ dantakāṣṭhaṃ dhuttūraiḥ pūjayecchivam ||
दन्तकाष्ठं चन्दनादि नैवेद्यं कृसरादिकम् ॥ (२।३)
dantakāṣṭhaṃ candanādi naivedyaṃ kṛsarādikam ||
माघे नटेश्वरायार्च्य कुन्दैर्मौक्तिकमालया । (३।१)
māghe naṭeśvarāyārcya kundairmauktikamālayā |
प्लक्षेण दन्तकाष्ठं च नैवेद्यं पूरिका मुने ॥ (३।२)
plakṣeṇa dantakāṣṭhaṃ ca naivedyaṃ pūrikā mune ||
चैत्रे यजेत् सुरूपाय कर्पूरं प्राशयेन्निशि । (५।१)
caitre yajet surūpāya karpūraṃ prāśayenniśi |
पूजा दमनकः शम्भोर् वैशाखे ऽशोकपुष्पकैः । (६।१)
pūjā damanakaḥ śambhor vaiśākhe 'śokapuṣpakaiḥ |
दन्तकाष्ठं प्राशयेच्च ददेज् जातीफलं तथा । (७।१)
dantakāṣṭhaṃ prāśayecca dadej jātīphalaṃ tathā |
प्रद्युम्नं पूजयेज्ज्येष्ठे चम्पकैर्बिल्वजं दशेत् ॥ (७।२)
pradyumnaṃ pūjayejjyeṣṭhe campakairbilvajaṃ daśet ||
सद्योजातं भाद्रपदे बकुलैः पूपकैर्यजेत् । (१०।१)
sadyojātaṃ bhādrapade bakulaiḥ pūpakairyajet |
खादिरं दन्तकाष्ठं च कार्तिके रुद्रमर्चयेत् ॥ (११।२)
khādiraṃ dantakāṣṭhaṃ ca kārtike rudramarcayet ||
क्षीरशाकप्रदः पद्मैर् अब्दन्ते शिवमर्चयेत् ॥ (१२।२)
kṣīraśākapradaḥ padmair abdante śivamarcayet ||
रतिमुक्तमनङ्गं च स्वर्णमण्डलसंस्थितम् । (१३।१)
ratimuktamanaṅgaṃ ca svarṇamaṇḍalasaṃsthitam |
गन्धाद्यैर्दशसाहस्रं तिलव्रीह्यादि होमयेत् ॥ (१३।२)
gandhādyairdaśasāhasraṃ tilavrīhyādi homayet ||
जागरं गीतवदित्रं प्रभित ऽभ्यर्च्य वेदयेत् । (१४।१)
jāgaraṃ gītavaditraṃ prabhita 'bhyarcya vedayet |
द्विजाय शय्यां पात्रं च छत्रं वस्त्रमुपानहौ ॥ (१४।२)
dvijāya śayyāṃ pātraṃ ca chatraṃ vastramupānahau ||
गां द्विजं भोजयेद्भक्त्या कृतकृत्यो भवेन्नरः । (१५।१)
gāṃ dvijaṃ bhojayedbhaktyā kṛtakṛtyo bhavennaraḥ |
एतदुद्यापनं सर्वं व्रतेषु ध्येयम् ईदृशम् । (१५।२)
etadudyāpanaṃ sarvaṃ vrateṣu dhyeyam īdṛśam |
फलं च श्रीसुतारोग्यसौभाग्यस्वर्गतं भवेत् ॥ (१५।३)
phalaṃ ca śrīsutārogyasaubhāgyasvargataṃ bhavet ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ऽनङ्गत्रयोदशीव्रतं नाम सप्तदशोत्तरशततमो ऽध्यायः ॥ (१६।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'naṅgatrayodaśīvrataṃ nāma saptadaśottaraśatatamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.