गरुडपुराणGaruḍapurāṇa

GarPur, 1, 167

164 of 166 · 128 verses

Select a line for its word-by-word analysis.

1.1१.१

धन्वन्तरिर् उवाच । (१।१)

dhanvantarir uvāca

1.2१.२

वातरक्तनिदानं ते वक्ष्ये सुश्रुत तच्छृणु । (१।२)

vātaraktanidānaṃ te vakṣye suśruta tacchṛṇu |

1.3१.३

विरुद्धाध्यशनक्रोधदिवास्वप्नप्रजागरैः ॥ (१।३)

viruddhādhyaśanakrodhadivāsvapnaprajāgaraiḥ ||

2.1२.१

प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम् । (२।१)

prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇām |

2.2२.२

स्थूलानां सुखिनां चापि कुप्यते वातशोणितम् ॥ (२।२)

sthūlānāṃ sukhināṃ cāpi kupyate vātaśoṇitam ||

3.1३.१

अग्निघातादशुद्धेश्च नृणामसृजि दूषिते । (३।१)

agnighātādaśuddheśca nṛṇāmasṛji dūṣite |

3.2३.२

वातलैः शीतलैर्वायुर्वृद्धः क्रुद्धो विमार्गगः ॥ (३।२)

vātalaiḥ śītalairvāyurvṛddhaḥ kruddho vimārgagaḥ ||

4.1४.१

तादृशैवासृजा रुद्धः प्राक्तदैव प्रदूषयेत् । (४।१)

tādṛśaivāsṛjā ruddhaḥ prāktadaiva pradūṣayet |

4.2४.२

तथा वातो गुदे पीडां बलासं वातशोणितम् ॥ (४।२)

tathā vāto gude pīḍāṃ balāsaṃ vātaśoṇitam ||

5.1५.१

संस्तभ्य जनयेत्पूर्वं पश्चात्सर्वत्र धावति । (५।१)

saṃstabhya janayetpūrvaṃ paścātsarvatra dhāvati |

5.2५.२

विशेषाद्वमनाद्यैश्च प्रलम्बस्तस्य लक्षणम् ॥ (५।२)

viśeṣādvamanādyaiśca pralambastasya lakṣaṇam ||

6.1६.१

भविष्यतः कुष्ठसमं तथा साम्बुदसंज्ञकम् । (६।१)

bhaviṣyataḥ kuṣṭhasamaṃ tathā sāmbudasaṃjñakam |

6.2६.२

जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु ॥ (६।२)

jānujaṅghorukaṭyaṃsahastapādāṅgasandhiṣu ||

7.1७.१

कण्डूस्फुरणनिस्तोदभेदगौरवसुप्तताः । (७।१)

kaṇḍūsphuraṇanistodabhedagauravasuptatāḥ |

7.2७.२

भूत्वा भूत्वा प्रशाम्यन्ति मुहुराविर्भवन्ति च ॥ (७।२)

bhūtvā bhūtvā praśāmyanti muhurāvirbhavanti ca ||

8.1८.१

पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि । (८।१)

pādayormūlamāsthāya kadāciddhastayorapi |

8.2८.२

आखोरिव बिलं क्रुद्धः कृत्स्नं देहं विधावति ॥ (८।२)

ākhoriva bilaṃ kruddhaḥ kṛtsnaṃ dehaṃ vidhāvati ||

9.1९.१

त्वङ्मांसाश्रयमत्तानं तत्पूर्वं जायते ततः । (९।१)

tvaṅmāṃsāśrayamattānaṃ tatpūrvaṃ jāyate tataḥ |

9.2९.२

कालान्तरेण गम्भीरं सर्वधातूनभिद्रवेत् ॥ (९।२)

kālāntareṇa gambhīraṃ sarvadhātūnabhidravet ||

10.1१०.१

कट्यादिसंयतस्थाने त्वक्ताम्रश्यावलोहिताः । (१०।१)

kaṭyādisaṃyatasthāne tvaktāmraśyāvalohitāḥ |

10.2१०.२

श्वयथुर्ग्रथितः पाकः स वायुश्चास्थिमज्जसु ॥ (१०।२)

śvayathurgrathitaḥ pākaḥ sa vāyuścāsthimajjasu ||

11.1११.१

छिन्दन्निव चरत्यन्तश् चकीकुर्वंश्च वेगवान् । (११।१)

chindanniva caratyantaś cakīkurvaṃśca vegavān |

11.2११.२

करोति खञ्जं पङ्गुं वा शरीरं सर्वतश्चरन् ॥ (११।२)

karoti khañjaṃ paṅguṃ vā śarīraṃ sarvataścaran ||

12.1१२.१

वाताधिके ऽधिकं तत्र शूलस्फुरणभञ्जनम् । (१२।१)

vātādhike 'dhikaṃ tatra śūlasphuraṇabhañjanam |

12.2१२.२

शोथस्य रौक्ष्यं कृष्णत्वं श्यावता वृद्धिहानयः ॥ (१२।२)

śothasya raukṣyaṃ kṛṣṇatvaṃ śyāvatā vṛddhihānayaḥ ||

13.1१३.१

धमन्यङ्गुलिसन्धीनां संकोचो ऽङ्गग्रहो ऽतिरुक् । (१३।१)

dhamanyaṅgulisandhīnāṃ saṃkoco 'ṅgagraho 'tiruk |

13.2१३.२

शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः ॥ (१३।२)

śītadveṣānupaśayau stambhavepathusuptayaḥ ||

14.1१४.१

रक्ते शोथो ऽतिरुक् तोदस् ताम्राश् चिमिचिमायते । (१४।१)

rakte śotho 'tiruk todas tāmrāś cimicimāyate |

14.2१४.२

स्निग्धरूक्षैः समं नैति कण्डुक्लेदसमन्वितः ॥ (१४।२)

snigdharūkṣaiḥ samaṃ naiti kaṇḍukledasamanvitaḥ ||

15.1१५.१

पित्ते विदाहः संमोहः स्वादो मूर्छा मदस्तृषा । (१५।१)

pitte vidāhaḥ saṃmohaḥ svādo mūrchā madastṛṣā |

15.2१५.२

स्पर्शासहत्वं रुग्रावः शोषः पाको भृशोष्मता ॥ (१५।२)

sparśāsahatvaṃ rugrāvaḥ śoṣaḥ pāko bhṛśoṣmatā ||

16.1१६.१

कफे स्तैमित्यगुरुता सुप्तिस्निग्धत्वशीतता । (१६।१)

kaphe staimityagurutā suptisnigdhatvaśītatā |

16.2१६.२

कण्डूर्मन्दा च रुग्द्वन्द्वं सर्वलिङ्गं च संकरात् ॥ (१६।२)

kaṇḍūrmandā ca rugdvandvaṃ sarvaliṅgaṃ ca saṃkarāt ||

17.1१७.१

एकदोषं च संसाध्यं याप्यं चैव द्विदोषजम् । (१७।१)

ekadoṣaṃ ca saṃsādhyaṃ yāpyaṃ caiva dvidoṣajam |

17.2१७.२

त्रिदोषजं त्यजेदाशु रक्तपित्तं सुदारुणम् ॥ (१७।२)

tridoṣajaṃ tyajedāśu raktapittaṃ sudāruṇam ||

18.1१८.१

रक्तमङ्गे निहन्त्याशु शाखासन्धिषु मारुतः । (१८।१)

raktamaṅge nihantyāśu śākhāsandhiṣu mārutaḥ |

18.2१८.२

निवेश्यान्योन्यमावार्य वेदनाभिर्हरत्यसून् ॥ (१८।२)

niveśyānyonyamāvārya vedanābhirharatyasūn ||

19.1१९.१

वायौ पञ्चात्मके प्राणे रौक्ष्याच्चापल्यलङ्घनैः । (१९।१)

vāyau pañcātmake prāṇe raukṣyāccāpalyalaṅghanaiḥ |

19.2१९.२

अत्याहाराभिघाताच्च वेगोदीरणचारणैः ॥ (१९।२)

atyāhārābhighātācca vegodīraṇacāraṇaiḥ ||

20.1२०.१

कुपितश्चक्षुरादीनामुपघातं प्रकल्पयेत् । (२०।१)

kupitaścakṣurādīnāmupaghātaṃ prakalpayet |

20.2२०.२

पीनसो दाहतृट्कासश्वासादिश्चैव जायते ॥ (२०।२)

pīnaso dāhatṛṭkāsaśvāsādiścaiva jāyate ||

21.1२१.१

कण्ठरोधो मलभ्रंशछर्द्यरोचकपीनसान् । (२१।१)

kaṇṭharodho malabhraṃśachardyarocakapīnasān |

21.2२१.२

कुर्याच्च गलगण्डादींस् तं जत्रुमूर्ध्वसंश्रयः ॥ (२१।२)

kuryācca galagaṇḍādīṃs taṃ jatrumūrdhvasaṃśrayaḥ ||

22.1२२.१

व्यानो ऽतिगमनस्नानक्रीडाविषयचेष्टितैः । (२२।१)

vyāno 'tigamanasnānakrīḍāviṣayaceṣṭitaiḥ |

22.2२२.२

विरुद्धरूक्षभीहर्षविषादाद्यैश्च दूषितः ॥ (२२।२)

viruddharūkṣabhīharṣaviṣādādyaiśca dūṣitaḥ ||

23.1२३.१

पुंस्त्वोत्साहबलभ्रंशशोकचित्तप्लवज्वरान् । (२३।१)

puṃstvotsāhabalabhraṃśaśokacittaplavajvarān |

23.2२३.२

सर्वाकारादिनिस्तोदरोमहर्षं सुषुप्तताम् ॥ (२३।२)

sarvākārādinistodaromaharṣaṃ suṣuptatām ||

24.1२४.१

कुष्ठं विसर्पमन्यच्च कुर्यात् सर्वाङ्गसादनम् । (२४।१)

kuṣṭhaṃ visarpamanyacca kuryāt sarvāṅgasādanam |

24.2२४.२

समानो विषमाजीर्णशीतसंकीर्णभोजनैः ॥ (२४।२)

samāno viṣamājīrṇaśītasaṃkīrṇabhojanaiḥ ||

25.1२५.१

करोत्यकालशयनजागराद्यैश्च दूषितः । (२५।१)

karotyakālaśayanajāgarādyaiśca dūṣitaḥ |

25.2२५.२

शूलगुल्मग्रहण्यादीन्यकृत्कामाश्रयान्गदान् ॥ (२५।२)

śūlagulmagrahaṇyādīnyakṛtkāmāśrayāngadān ||

26.1२६.१

अपानो रूक्षगुर्वन्नवेगाघातातिवाहनैः । (२६।१)

apāno rūkṣagurvannavegāghātātivāhanaiḥ |

26.2२६.२

यानपानसमुत्थानचङ्क्रमैश्चातिसेवितैः ॥ (२६।२)

yānapānasamutthānacaṅkramaiścātisevitaiḥ ||

27.1२७.१

कुपितः कुरुते रोगान्कृत्स्नान् पक्वाशयाश्रयान् । (२७।१)

kupitaḥ kurute rogānkṛtsnān pakvāśayāśrayān |

27.2२७.२

मूत्रशुक्रप्रदोषार्शोगुदभ्रंशादिकान्बहून् ॥ (२७।२)

mūtraśukrapradoṣārśogudabhraṃśādikānbahūn ||

28.1२८.१

सर्वाङ्गमाततं सामं तन्द्रास्तैमित्यगौरवैः । (२८।१)

sarvāṅgamātataṃ sāmaṃ tandrāstaimityagauravaiḥ |

28.2२८.२

स्निग्धत्वाद् बोधकालस्य शैत्यशोथाग्निहानयः ॥ (२८।२)

snigdhatvād bodhakālasya śaityaśothāgnihānayaḥ ||

29.1२९.१

कण्डूरूक्षातिनाशेन तद्विधोपशमेन च । (२९।१)

kaṇḍūrūkṣātināśena tadvidhopaśamena ca |

29.2२९.२

मुक्तिं विद्यान्निरामं तं तन्द्रादीनां विपर्ययात् ॥ (२९।२)

muktiṃ vidyānnirāmaṃ taṃ tandrādīnāṃ viparyayāt ||

30.1३०.१

वायोरावरणं वातो बहुभेदं प्रचक्षते । (३०।१)

vāyorāvaraṇaṃ vāto bahubhedaṃ pracakṣate |

30.2३०.२

पित्तलिङ्गावृते दाहस्तृष्णा शूलं भ्रमस्तमः ॥ (३०।२)

pittaliṅgāvṛte dāhastṛṣṇā śūlaṃ bhramastamaḥ ||

31.1३१.१

कटुकोष्णाम्ललवणैर् विदाहशीतकामता । (३१।१)

kaṭukoṣṇāmlalavaṇair vidāhaśītakāmatā |

31.2३१.२

शैत्यगौरवशूलाग्निकट्वाज्यपयसो ऽधिकम् ॥ (३१।२)

śaityagauravaśūlāgnikaṭvājyapayaso 'dhikam ||

32.1३२.१

लङ्घनायासरूक्षोष्णकामता च कफावृते । (३२।१)

laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte |

32.2३२.२

कफावृते ऽङ्गमर्दः स्याद्धृल्लासो गुरुतारुचिः ॥ (३२।२)

kaphāvṛte 'ṅgamardaḥ syāddhṛllāso gurutāruciḥ ||

33.1३३.१

रक्तवृते सदाहार्तिस् त्वङ्मांसाश्रयजा भृशम् । (३३।१)

raktavṛte sadāhārtis tvaṅmāṃsāśrayajā bhṛśam |

33.2३३.२

भवेत्सरागः श्वयथुर्जायन्ते मण्डलानि च ॥ (३३।२)

bhavetsarāgaḥ śvayathurjāyante maṇḍalāni ca ||

34.1३४.१

शोथो मांसेन कठिनो हृल्लासपिटिकास्तथा । (३४।१)

śotho māṃsena kaṭhino hṛllāsapiṭikāstathā |

34.2३४.२

हर्षः पिपीलिकानां च संचार इव जायते । (३४।२)

harṣaḥ pipīlikānāṃ ca saṃcāra iva jāyate |

34.3३४.३

चललग्रनो मृदुः शीतः शोथो गात्रेषु रोचकः ॥ (३४।३)

calalagrano mṛduḥ śītaḥ śotho gātreṣu rocakaḥ ||

35.1३५.१

आढ्यवात इव ज्ञेयः स कृच्छ्रो मेदसावृतः । (३५।१)

āḍhyavāta iva jñeyaḥ sa kṛcchro medasāvṛtaḥ |

35.2३५.२

स्पर्श आच्छादितेत्युष्णशीतलश्च त्वनावृते । (३५।२)

sparśa ācchāditetyuṣṇaśītalaśca tvanāvṛte |

35.3३५.३

मज्जावृते तु विषमं जृम्भणं परिवेष्टनम् ॥ (३५।३)

majjāvṛte tu viṣamaṃ jṛmbhaṇaṃ pariveṣṭanam ||

36.1३६.१

शूलं च पड्यिमानश्च पाणिभ्यां लभते सुखम् । (३६।१)

śūlaṃ ca paḍyimānaśca pāṇibhyāṃ labhate sukham |

36.2३६.२

शुक्रावृते तु शोथे वै चातिवेगो न विद्यते ॥ (३६।२)

śukrāvṛte tu śothe vai cātivego na vidyate ||

37.1३७.१

भुक्ते कुक्षौ रुजा जीर्णे निकृत्तिर् भवति ध्रुवम् । (३७।१)

bhukte kukṣau rujā jīrṇe nikṛttir bhavati dhruvam |

37.2३७.२

मूत्राप्रवृत्तिराध्मानं बस्तेर्मूत्रावृते भवेत् ॥ (३७।२)

mūtrāpravṛttirādhmānaṃ bastermūtrāvṛte bhavet ||

38.1३८.१

छिद्रावृते विबन्धो ऽथ स्वस्थानं परिकृन्तति । (३८।१)

chidrāvṛte vibandho 'tha svasthānaṃ parikṛntati |

38.2३८.२

पतत्याशु ज्वराक्रान्तो मूर्छां च लभते नरः ॥ (३८।२)

patatyāśu jvarākrānto mūrchāṃ ca labhate naraḥ ||

39.1३९.१

सकृत् पीडितमन्येन दुष्टं शुक्रं चिरात्सृजेत् । (३९।१)

sakṛt pīḍitamanyena duṣṭaṃ śukraṃ cirātsṛjet |

39.2३९.२

सर्वधात्वावृते वायौ श्रोणिवङ्क्षणपृष्ठरुक् ॥ (३९।२)

sarvadhātvāvṛte vāyau śroṇivaṅkṣaṇapṛṣṭharuk ||

40.1४०.१

विलोमे मारुते चैव हृदयं परिपीड्यते । (४०।१)

vilome mārute caiva hṛdayaṃ paripīḍyate |

40.2४०.२

भ्रमो मूर्छा रुजा दाहः पित्तेन प्राण आवृते ॥ (४०।२)

bhramo mūrchā rujā dāhaḥ pittena prāṇa āvṛte ||

41.1४१.१

रुजा तन्द्रा स्वरभ्रंशो दाहो व्याने तु सर्वशः । (४१।१)

rujā tandrā svarabhraṃśo dāho vyāne tu sarvaśaḥ |

41.2४१.२

क्रमो ऽङ्गचेष्टाभङ्गश्च सन्तापः सहवेदनः ॥ (४१।२)

kramo 'ṅgaceṣṭābhaṅgaśca santāpaḥ sahavedanaḥ ||

42.1४२.१

समान ऊष्मोपहतिः सस्वेदोपरतिः सुतृट् । (४२।१)

samāna ūṣmopahatiḥ sasvedoparatiḥ sutṛṭ |

42.2४२.२

दाहश्च स्यादपाने तु मले हारिद्रवर्णता ॥ (४२।२)

dāhaśca syādapāne tu male hāridravarṇatā ||

43.1४३.१

रजोवृद्धिस् तापनं च तथा चानाहमेहनम् । (४३।१)

rajovṛddhis tāpanaṃ ca tathā cānāhamehanam |

43.2४३.२

श्लेष्मणा प्रावृते प्राणे नादः स्रोतोऽवरोधनम् ॥ (४३।२)

śleṣmaṇā prāvṛte prāṇe nādaḥ sroto'varodhanam ||

44.1४४.१

ष्ठीवनं चैव सस्वेदश्वासनिःश्वाससंग्रहः । (४४।१)

ṣṭhīvanaṃ caiva sasvedaśvāsaniḥśvāsasaṃgrahaḥ |

44.2४४.२

उदाने गुरुगात्रत्वमरुचिर्वाक्स्वरग्रहः ॥ (४४।२)

udāne gurugātratvamarucirvāksvaragrahaḥ ||

45.1४५.१

बलवर्णप्रणाशश्चापाने पर्वास्थिसंग्रहः । (४५।१)

balavarṇapraṇāśaścāpāne parvāsthisaṃgrahaḥ |

45.2४५.२

गुरुताङ्गेषु सर्वेषु स्थूलत्वं चागतं भृशम् ॥ (४५।२)

gurutāṅgeṣu sarveṣu sthūlatvaṃ cāgataṃ bhṛśam ||

46.1४६.१

समाने ऽतिक्रियाज्ञत्वम् अस्वेदो मन्दवह्निता । (४६।१)

samāne 'tikriyājñatvam asvedo mandavahnitā |

46.2४६.२

अपाने सकलं मूत्रं शकृतः स्यात् प्रवर्तनम् ॥ (४६।२)

apāne sakalaṃ mūtraṃ śakṛtaḥ syāt pravartanam ||

47.1४७.१

इति द्वाविंशतिविधं वातरक्तामयं विदुः । (४७।१)

iti dvāviṃśatividhaṃ vātaraktāmayaṃ viduḥ |

47.2४७.२

प्राणादयस्तथान्यो ऽन्यं समाक्रान्ता यथाक्रमम् ॥ (४७।२)

prāṇādayastathānyo 'nyaṃ samākrāntā yathākramam ||

48.1४८.१

सर्वे ऽपि विंशतिविधं विद्याद् आवरणं च यत् । (४८।१)

sarve 'pi viṃśatividhaṃ vidyād āvaraṇaṃ ca yat |

48.2४८.२

हृल्लासोच्छ्वाससंरोधः प्रतिश्यायः शिरोग्रहः ॥ (४८।२)

hṛllāsocchvāsasaṃrodhaḥ pratiśyāyaḥ śirograhaḥ ||

49.1४९.१

हृद्रोगो मुखशोषश्च प्राणेनापान आवृते । (४९।१)

hṛdrogo mukhaśoṣaśca prāṇenāpāna āvṛte |

49.2४९.२

उदानेनावृते प्राणे भवेद्धै बलसंक्षयः ॥ (४९।२)

udānenāvṛte prāṇe bhaveddhai balasaṃkṣayaḥ ||

50.1५०.१

विचारणेन विभजेत्सर्वमावरणं भिषक् । (५०।१)

vicāraṇena vibhajetsarvamāvaraṇaṃ bhiṣak |

50.2५०.२

स्थानान्यपेक्ष्य वातानां वृद्धिहानिं च कर्मणाम् ॥ (५०।२)

sthānānyapekṣya vātānāṃ vṛddhihāniṃ ca karmaṇām ||

51.1५१.१

प्राणादीनां च पञ्चानां पित्तमावरणं मिथः । (५१।१)

prāṇādīnāṃ ca pañcānāṃ pittamāvaraṇaṃ mithaḥ |

51.2५१.२

पित्तादीनामावसतिर्मिश्राणां मिश्रितैश्च तैः ॥ (५१।२)

pittādīnāmāvasatirmiśrāṇāṃ miśritaiśca taiḥ ||

52.1५२.१

मिश्रैः पित्तादिभिस्तद्वन्मिश्राण्यपित्वनेकधा । (५२।१)

miśraiḥ pittādibhistadvanmiśrāṇyapitvanekadhā |

52.2५२.२

तांल्लक्षयेदवहितो यथास्वं लक्षणोदयात् ॥ (५२।२)

tāṃllakṣayedavahito yathāsvaṃ lakṣaṇodayāt ||

53.1५३.१

शनैः शनैश्चोपशयान्दृढानपि मुहुर्मुहुः । (५३।१)

śanaiḥ śanaiścopaśayāndṛḍhānapi muhurmuhuḥ |

53.2५३.२

विशेषाज्जीवितं प्राण उदानो बलमुच्यते । (५३।२)

viśeṣājjīvitaṃ prāṇa udāno balamucyate |

53.3५३.३

स्यात्तयोः पीडनाद्धनिरायुषं च बलस्य च ॥ (५३।३)

syāttayoḥ pīḍanāddhanirāyuṣaṃ ca balasya ca ||

54.1५४.१

आवृता वायवो ऽज्ञाता ज्ञाता वा स्थानविच्युताः । (५४।१)

āvṛtā vāyavo 'jñātā jñātā vā sthānavicyutāḥ |

54.2५४.२

प्रयत्नेनापि दुःसाध्या भवेयुर्वानुपद्रवाः ॥ (५४।२)

prayatnenāpi duḥsādhyā bhaveyurvānupadravāḥ ||

55.1५५.१

विद्रधिप्लीहहृद्रोगगुल्माग्निसदनादयः । (५५।१)

vidradhiplīhahṛdrogagulmāgnisadanādayaḥ |

55.2५५.२

भवन्त्युपद्रवास्तेषाम् आवृतानाम् उपेक्षया ॥ (५५।२)

bhavantyupadravāsteṣām āvṛtānām upekṣayā ||

56.1५६.१

निदानं सुश्रुत मया आत्रेयोक्तं समीरितम् । (५६।१)

nidānaṃ suśruta mayā ātreyoktaṃ samīritam |

56.2५६.२

सर्वरोगविवेकाय नराद्यायुःप्रवृद्धये ॥ (५६।२)

sarvarogavivekāya narādyāyuḥpravṛddhaye ||

57.1५७.१

एवं विज्ञाय रोगादींश्चिकित्सामथ वै चरेत् । (५७।१)

evaṃ vijñāya rogādīṃścikitsāmatha vai caret |

57.2५७.२

त्रिफला सर्वरोगघ्नी मध्वाज्यगुडसंयुता ॥ (५७।२)

triphalā sarvarogaghnī madhvājyaguḍasaṃyutā ||

58.1५८.१

सव्योषा त्रिफला वापि सर्वरोगप्रमर्दिनी । (५८।१)

savyoṣā triphalā vāpi sarvarogapramardinī |

58.2५८.२

शतावरीगुडूच्यग्निविडङ्गेन युताथवा ॥ (५८।२)

śatāvarīguḍūcyagniviḍaṅgena yutāthavā ||

59.1५९.१

शतावरी गुडूच्यग्निः शुण्ठी मूषलिका बला । (५९।१)

śatāvarī guḍūcyagniḥ śuṇṭhī mūṣalikā balā |

59.2५९.२

पुनर्नवा च बृहती निर्गुण्डी निम्बपत्रकम् ॥ (५९।२)

punarnavā ca bṛhatī nirguṇḍī nimbapatrakam ||

60.1६०.१

भृङ्गराजश्चामलकं वासकस्तद्रसेन वा । (६०।१)

bhṛṅgarājaścāmalakaṃ vāsakastadrasena vā |

60.2६०.२

भाविता त्रिफला सप्तवारम् एकम् अथापि वा ॥ (६०।२)

bhāvitā triphalā saptavāram ekam athāpi vā ||

61.1६१.१

पूर्वोक्तश्च यथालाभयुक्तैश्चूर्णं च मोदकः । (६१।१)

pūrvoktaśca yathālābhayuktaiścūrṇaṃ ca modakaḥ |

61.2६१.२

वटिका घृततैलं वा कषायः शोषरोगनुत् । (६१।२)

vaṭikā ghṛtatailaṃ vā kaṣāyaḥ śoṣaroganut |

61.3६१.३

पलं पलार्धकं वापि कर्षं कर्षार्धमेव वा ॥ (६१।३)

palaṃ palārdhakaṃ vāpi karṣaṃ karṣārdhameva vā ||

62.1६२.१

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वातरक्तनि सप्तषष्ट्यधिकशततमो ऽध्यायः ॥ (६२।१)

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vātaraktani saptaṣaṣṭyadhikaśatatamo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

GarPur, 1, 167

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit