गरुडपुराणGaruḍapurāṇa

GarPur, 1, 2

2 of 166 · 136 verses

Select a line for its word-by-word analysis.

1.1१.१

ऋषय ऊचुः । (१।१)

ṛṣaya ūcuḥ |

1.2१.२

कथं व्यासेन कथितं पुराणं गारुडं तव । (१।२)

kathaṃ vyāsena kathitaṃ purāṇaṃ gāruḍaṃ tava |

1.3१.३

एतत्सर्वं समाख्याहि परं विष्णुकथाश्रयम् ॥ (१।३)

etatsarvaṃ samākhyāhi paraṃ viṣṇukathāśrayam ||

2.1२.१

सूत उवाच । (२।१)

sūta uvāca

2.2२.२

अहं हि मुनिभिः सार्धं गतो बदरिकाश्रमम् । (२।२)

ahaṃ hi munibhiḥ sārdhaṃ gato badarikāśramam |

2.3२.३

तत्र दृष्टो मया व्यासो ध्यायमानः परेश्वरम् ॥ (२।३)

tatra dṛṣṭo mayā vyāso dhyāyamānaḥ pareśvaram ||

3.1३.१

तं प्रणम्योपविष्टो ऽहं पृष्टवान्हि मुनीश्वरम् । (३।१)

taṃ praṇamyopaviṣṭo 'haṃ pṛṣṭavānhi munīśvaram |

3.2३.२

सूत उवाच । (३।२)

sūta uvāca

3.3३.३

व्यास ब्रूहि हरे रूपं जगत्सर्गादिकं ततः ॥ (३।३)

vyāsa brūhi hare rūpaṃ jagatsargādikaṃ tataḥ ||

4.1४.१

मन्ये ध्यायसि तं यस्मात्तस्माज्जानासि तं विभुम् । (४।१)

manye dhyāyasi taṃ yasmāttasmājjānāsi taṃ vibhum |

4.2४.२

एवं पृष्टो यथा प्राह तथा विप्रा निबोधत ॥ (४।२)

evaṃ pṛṣṭo yathā prāha tathā viprā nibodhata ||

5.1५.१

व्यास उवाच । (५।१)

vyāsa uvāca

5.2५.२

शृणु सूत प्रवक्ष्यामि पुराणं गारुडं तव । (५।२)

śṛṇu sūta pravakṣyāmi purāṇaṃ gāruḍaṃ tava |

5.3५.३

सह नारददक्षाद्यैर्ब्रह्मा मामुक्तवान्यथा ॥ (५।३)

saha nāradadakṣādyairbrahmā māmuktavānyathā ||

6.1६.१

सूत उवाच । (६।१)

sūta uvāca

6.2६.२

दक्षनारदमुख्यैस्तु युक्तं त्वां कथमुक्तवान् । (६।२)

dakṣanāradamukhyaistu yuktaṃ tvāṃ kathamuktavān |

6.3६.३

ब्रह्मा श्रीगारुडं पुण्यं पुराणं सारवाचकम् ॥ (६।३)

brahmā śrīgāruḍaṃ puṇyaṃ purāṇaṃ sāravācakam ||

7.1७.१

व्यास उवाच । (७।१)

vyāsa uvāca

7.2७.२

अहं हि नारदो दक्षो भृग्वाद्याः प्रणिपत्य तम् । (७।२)

ahaṃ hi nārado dakṣo bhṛgvādyāḥ praṇipatya tam |

7.3७.३

सारं ब्रूहीति पप्रच्छुर्ब्रह्माणं ब्रह्मलोकगम् ॥ (७।३)

sāraṃ brūhīti papracchurbrahmāṇaṃ brahmalokagam ||

8.1८.१

ब्रह्मोवाच । (८।१)

brahmovāca |

8.2८.२

पुराणं गारुडं सारं रुद्रं च मां यथा । (८।२)

purāṇaṃ gāruḍaṃ sāraṃ rudraṃ ca māṃ yathā |

8.3८.३

सुरैः सहाब्रवीद्विष्णुस्तथाहं व्यास वच्मि ते ॥ (८।३)

suraiḥ sahābravīdviṣṇustathāhaṃ vyāsa vacmi te ||

9.1९.१

व्यास उवाच । (९।१)

vyāsa uvāca

9.2९.२

कथं रुद्रं सुरैः सार्धमब्रवीद्वै हरिः पुरा । (९।२)

kathaṃ rudraṃ suraiḥ sārdhamabravīdvai hariḥ purā |

9.3९.३

पुराणं गारुडं सारं ब्रूहि ब्रह्मन्महार्थकम् ॥ (९।३)

purāṇaṃ gāruḍaṃ sāraṃ brūhi brahmanmahārthakam ||

10.1१०.१

ब्रह्मोवाच । (१०।१)

brahmovāca |

10.2१०.२

अहं गतो ऽद्रिं कैलासमिन्द्राद्यैर्दैवतैः सह । (१०।२)

ahaṃ gato 'driṃ kailāsamindrādyairdaivataiḥ saha |

10.3१०.३

तत्र दृष्टो मया रुद्रो ध्यायमानः परं पदम् ॥ (१०।३)

tatra dṛṣṭo mayā rudro dhyāyamānaḥ paraṃ padam ||

11.1११.१

पृष्टो नमस्कृतः किं त्वं देवं ध्यायसि शङ्कर । (११।१)

pṛṣṭo namaskṛtaḥ kiṃ tvaṃ devaṃ dhyāyasi śaṅkara |

11.2११.२

त्वत्तो नान्यं परं देवं जानामि ब्रूहि मां ततः ॥ (११।२)

tvatto nānyaṃ paraṃ devaṃ jānāmi brūhi māṃ tataḥ ||

12.1१२.१

सारात्सारतरं तत्त्वं श्रोतुकामः सुरैः सह । (१२।१)

sārātsārataraṃ tattvaṃ śrotukāmaḥ suraiḥ saha |

12.2१२.२

रुद्र उवाच । (१२।२)

rudra uvāca

12.3१२.३

अहं ध्यायामि तं विष्णुं परमात्मानमीश्वरम् ॥ (१२।३)

ahaṃ dhyāyāmi taṃ viṣṇuṃ paramātmānamīśvaram ||

13.1१३.१

सर्वदं सर्वगं सर्वं सर्वप्राणिहृदिस्थितम् । (१३।१)

sarvadaṃ sarvagaṃ sarvaṃ sarvaprāṇihṛdisthitam |

13.2१३.२

भस्मोद्धूलितदेहस्तु जटामण्डलमण्डितः ॥ (१३।२)

bhasmoddhūlitadehastu jaṭāmaṇḍalamaṇḍitaḥ ||

14.1१४.१

विष्णोराराधनार्थं मे व्रतचर्या पितामह । (१४।१)

viṣṇorārādhanārthaṃ me vratacaryā pitāmaha |

14.2१४.२

तमेव गत्वा पृच्छामः सारं यं चिन्तयाम्यहम् ॥ (१४।२)

tameva gatvā pṛcchāmaḥ sāraṃ yaṃ cintayāmyaham ||

15.1१५.१

विष्णुं जिष्णुं पद्मनाभं हरिं देहविवर्जितम् । (१५।१)

viṣṇuṃ jiṣṇuṃ padmanābhaṃ hariṃ dehavivarjitam |

15.2१५.२

शुचिं शुचिषदं हंसं तत्पदं परमेश्वरम् ॥ (१५।२)

śuciṃ śuciṣadaṃ haṃsaṃ tatpadaṃ parameśvaram ||

16.1१६.१

युक्ता सर्वात्मनात्मानं तं देवं चिन्तयाम्यहम् । (१६।१)

yuktā sarvātmanātmānaṃ taṃ devaṃ cintayāmyaham |

16.2१६.२

यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च ॥ (१६।२)

yasminviśvāni bhūtāni tiṣṭhanti ca viśanti ca ||

17.1१७.१

गुणभूतानि भूतेशे सूत्रे मणिगणा इव । (१७।१)

guṇabhūtāni bhūteśe sūtre maṇigaṇā iva |

17.2१७.२

सहस्राक्षं सहस्राङ्घ्रिं सहस्रोरुं वराननम् ॥ (१७।२)

sahasrākṣaṃ sahasrāṅghriṃ sahasroruṃ varānanam ||

18.1१८.१

अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् । (१८।१)

aṇīyasāmaṇīyāṃsaṃ sthaviṣṭhaṃ ca sthavīyasām |

18.2१८.२

गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ॥ (१८।२)

garīyasāṃ gariṣṭhaṃ ca śreṣṭhaṃ ca śreyasāmapi ||

19.1१९.१

यं वाक्येष्वनुवाक्येषु निषत्सूपनिषत्सु च । (१९।१)

yaṃ vākyeṣvanuvākyeṣu niṣatsūpaniṣatsu ca |

19.2१९.२

गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ॥ (१९।२)

gṛṇanti satyakarmāṇaṃ satyaṃ satyeṣu sāmasu ||

20.1२०.१

पुराणपुरुषः प्रोक्तो ब्रह्मा प्रोक्तो द्विजातिषु । (२०।१)

purāṇapuruṣaḥ prokto brahmā prokto dvijātiṣu |

20.2२०.२

क्षये संकर्षणः प्रोक्तस्तमुपास्यमुपास्महे ॥ (२०।२)

kṣaye saṃkarṣaṇaḥ proktastamupāsyamupāsmahe ||

21.1२१.१

यस्मिंल्लोकाः स्फुरन्तीमे जले शकुनयो यथा । (२१।१)

yasmiṃllokāḥ sphurantīme jale śakunayo yathā |

21.2२१.२

ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम् ॥ (२१।२)

ṛtamekākṣaraṃ brahma yattatsadasataḥ param ||

22.1२२.१

अर्चयन्ति च यं देवा यक्षराक्षसपन्नगाः । (२२।१)

arcayanti ca yaṃ devā yakṣarākṣasapannagāḥ |

22.2२२.२

यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ॥ (२२।२)

yasyāgnirāsyaṃ dyaurmūrdhā khaṃ nābhiścaraṇau kṣitiḥ ||

23.1२३.१

चन्द्रादित्यौ च नयने तं देवं चिन्तयाम्यहम् । (२३।१)

candrādityau ca nayane taṃ devaṃ cintayāmyaham |

23.2२३.२

यस्य त्रिलोकी जठरे मस्य काष्ठाश्च बाहवः ॥ (२३।२)

yasya trilokī jaṭhare masya kāṣṭhāśca bāhavaḥ ||

24.1२४.१

यस्योच्छ्वासश्च पवनः तं देवं चिन्तयाम्यहम् । (२४।१)

yasyocchvāsaśca pavanaḥ taṃ devaṃ cintayāmyaham |

24.2२४.२

यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु ॥ (२४।२)

yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasandhiṣu ||

25.1२५.१

कुक्षौ समुद्राश्चत्वारस्तं देवं चिन्तयाम्यहम् । (२५।१)

kukṣau samudrāścatvārastaṃ devaṃ cintayāmyaham |

25.2२५.२

परः कालात्परो यज्ञात्परः सदसतश् च यः ॥ (२५।२)

paraḥ kālātparo yajñātparaḥ sadasataś ca yaḥ ||

26.1२६.१

अनादिरादिर् विश्वस्य तं देवं चिन्तयाम्यहम् । (२६।१)

anādirādir viśvasya taṃ devaṃ cintayāmyaham |

26.2२६.२

मनसश्चन्द्रमा यस्य चक्षुषोश्च दिवाकरः ॥ (२६।२)

manasaścandramā yasya cakṣuṣośca divākaraḥ ||

27.1२७.१

मुखादग्निश्च संजज्ञे तं देवं चिन्तयाम्यहम् । (२७।१)

mukhādagniśca saṃjajñe taṃ devaṃ cintayāmyaham |

27.2२७.२

पद्भ्यां यस्य क्षितिर्जाता श्रोत्राभ्यां च तथा दिशः ॥ (२७।२)

padbhyāṃ yasya kṣitirjātā śrotrābhyāṃ ca tathā diśaḥ ||

28.1२८.१

मूर्धभागाद्दिवं यस्य तं देवं चिन्तयाम्यहम् । (२८।१)

mūrdhabhāgāddivaṃ yasya taṃ devaṃ cintayāmyaham |

28.2२८.२

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥ (२८।२)

sargaśca pratisargaśca vaṃśo manvantarāṇi ca ||

29.1२९.१

वंशानुचरितं यस्मात्तं देवं चिन्तयाम्यहम् । (२९।१)

vaṃśānucaritaṃ yasmāttaṃ devaṃ cintayāmyaham |

29.2२९.२

यं ध्यायाम्यहम् एतस्मादूजामः सारमीक्षितुम् ॥ (२९।२)

yaṃ dhyāyāmyaham etasmādūjāmaḥ sāramīkṣitum ||

30.1३०.१

ब्रह्मोवाच । (३०।१)

brahmovāca |

30.2३०.२

इत्युक्तो ऽहं पुरा रुद्रः श्वेतद्वीपनिवासिनम् । (३०।२)

ityukto 'haṃ purā rudraḥ śvetadvīpanivāsinam |

30.3३०.३

स्तुत्वा प्रणम्य तं विष्णुं श्रोतुकाम स्थितः सुरैः ॥ (३०।३)

stutvā praṇamya taṃ viṣṇuṃ śrotukāma sthitaḥ suraiḥ ||

31.1३१.१

अस्माकं मध्यतो रुद्र उवाच परमेश्वरम् । (३१।१)

asmākaṃ madhyato rudra uvāca parameśvaram |

31.2३१.२

सारात् सारतरं विष्णुं पृष्टवांस्तं प्रणम्य वै ॥ (३१।२)

sārāt sārataraṃ viṣṇuṃ pṛṣṭavāṃstaṃ praṇamya vai ||

32.1३२.१

ब्रह्मोवाच । (३२।१)

brahmovāca |

32.2३२.२

यथा पप्रच्छ मां व्यासस् तथासौ भगवान् भवः । (३२।२)

yathā papraccha māṃ vyāsas tathāsau bhagavān bhavaḥ |

32.3३२.३

पप्रच्छ विष्णुं देवाद्यैः शृण्वताममरैः सह ॥ (३२।३)

papraccha viṣṇuṃ devādyaiḥ śṛṇvatāmamaraiḥ saha ||

33.1३३.१

रुद्र उवाच । (३३।१)

rudra uvāca

33.2३३.२

हरे कथय देवेश देवदेवः क ईश्वरः । (३३।२)

hare kathaya deveśa devadevaḥ ka īśvaraḥ |

33.3३३.३

को ध्येयः कश्च वै पूज्यः कैर्व्रतैस् तुष्यते परः ॥ (३३।३)

ko dhyeyaḥ kaśca vai pūjyaḥ kairvratais tuṣyate paraḥ ||

34.1३४.१

कैर्धर्मैः कैश्च नियमैः कया वा धर्मपूजया । (३४।१)

kairdharmaiḥ kaiśca niyamaiḥ kayā vā dharmapūjayā |

34.2३४.२

केनाचारेण तुष्टः स्यात्किं तद्रूपं च तस्य वै ॥ (३४।२)

kenācāreṇa tuṣṭaḥ syātkiṃ tadrūpaṃ ca tasya vai ||

35.1३५.१

कस्माद्देवाज्जगज्जातं जगत्पालयते च कः । (३५।१)

kasmāddevājjagajjātaṃ jagatpālayate ca kaḥ |

35.2३५.२

कीदृशैरवतारैश्च कस्मिन्याति लयं जगत् ॥ (३५।२)

kīdṛśairavatāraiśca kasminyāti layaṃ jagat ||

36.1३६.१

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । (३६।१)

sargaśca pratisargaśca vaṃśo manvantarāṇi ca |

36.2३६.२

कस्माद्देवात्प्रवर्तन्ते कस्मिन् एतत् प्रतिष्ठितम् ॥ (३६।२)

kasmāddevātpravartante kasmin etat pratiṣṭhitam ||

37.1३७.१

एतत्सर्वं हरे ब्रूहि यच्चान्यदपि किंचन । (३७।१)

etatsarvaṃ hare brūhi yaccānyadapi kiṃcana |

37.2३७.२

परमेश्वरमाहात्म्यं युक्तयोगादिकं तथा ॥ (३७।२)

parameśvaramāhātmyaṃ yuktayogādikaṃ tathā ||

38.1३८.१

तथाष्टादश विद्याश्च हरी रुद्रं ततो ऽब्रवीत् । (३८।१)

tathāṣṭādaśa vidyāśca harī rudraṃ tato 'bravīt |

38.2३८.२

हरिरुवाच । (३८।२)

hariruvāca |

38.3३८.३

शृणु रुद्र प्रवक्ष्यामि ब्रह्मणा च सुरैः सह ॥ (३८।३)

śṛṇu rudra pravakṣyāmi brahmaṇā ca suraiḥ saha ||

39.1३९.१

अहं हि देवो देवानां सर्वलोकेश्वरेश्वरः । (३९।१)

ahaṃ hi devo devānāṃ sarvalokeśvareśvaraḥ |

39.2३९.२

अहं ध्येयश्च पूज्यश्च स्तुत्यो ऽहं स्तुतिभिः सुरैः ॥ (३९।२)

ahaṃ dhyeyaśca pūjyaśca stutyo 'haṃ stutibhiḥ suraiḥ ||

40.1४०.१

अहं हि पूजितो रुद्र ददामि परमां गतिम् । (४०।१)

ahaṃ hi pūjito rudra dadāmi paramāṃ gatim |

40.2४०.२

नियमैश्च व्रतैस्तुष्ट आचारेण च मानवैः ॥ (४०।२)

niyamaiśca vrataistuṣṭa ācāreṇa ca mānavaiḥ ||

41.1४१.१

जगत्स्थितेरहं बीजं जगत्कर्ता त्वहं शिव । (४१।१)

jagatsthiterahaṃ bījaṃ jagatkartā tvahaṃ śiva |

41.2४१.२

दुष्टनिग्रहकर्ता हि धर्मगोप्ता त्वहं हर ॥ (४१।२)

duṣṭanigrahakartā hi dharmagoptā tvahaṃ hara ||

42.1४२.१

अवतारैश्च मत्स्याद्यैः पालयाम्यखिलं जगत् । (४२।१)

avatāraiśca matsyādyaiḥ pālayāmyakhilaṃ jagat |

42.2४२.२

अहं मन्त्राश्च मन्त्रार्थः पूजाध्यानपरो ह्यहम् ॥ (४२।२)

ahaṃ mantrāśca mantrārthaḥ pūjādhyānaparo hyaham ||

43.1४३.१

स्वर्गादीनां च कर्ताहं स्वर्गादीन्यहमेव च । (४३।१)

svargādīnāṃ ca kartāhaṃ svargādīnyahameva ca |

43.2४३.२

योगी योगो ऽहम् एवाद्यः पुराणान्यहमेवच ॥ (४३।२)

yogī yogo 'ham evādyaḥ purāṇānyahamevaca ||

44.1४४.१

ज्ञाता श्रोता तथा मन्ता वक्ता वक्तव्यमेव च । (४४।१)

jñātā śrotā tathā mantā vaktā vaktavyameva ca |

44.2४४.२

सर्वः सर्वात्मको देवो भुक्तिमुक्तिकरः परः ॥ (४४।२)

sarvaḥ sarvātmako devo bhuktimuktikaraḥ paraḥ ||

45.1४५.१

ध्यानं पूजोपहारो ऽहं मण्डलान्यहमेव च । (४५।१)

dhyānaṃ pūjopahāro 'haṃ maṇḍalānyahameva ca |

45.2४५.२

इतिहासान्यहं रुद्र सर्ववेदा ह्यहं शिव ॥ (४५।२)

itihāsānyahaṃ rudra sarvavedā hyahaṃ śiva ||

46.1४६.१

सर्वज्ञानान्यहं शम्भो ब्रह्मात्माहमहं शिव । (४६।१)

sarvajñānānyahaṃ śambho brahmātmāhamahaṃ śiva |

46.2४६.२

अहं ब्रह्मा सर्वलोकः सर्वदेवात्मको ह्यहम् ॥ (४६।२)

ahaṃ brahmā sarvalokaḥ sarvadevātmako hyaham ||

47.1४७.१

अहं साक्षात्सदाचारो धर्मो ऽहं वैष्णवो ह्यहम् । (४७।१)

ahaṃ sākṣātsadācāro dharmo 'haṃ vaiṣṇavo hyaham |

47.2४७.२

वर्णाश्रमास्तथा चाहं तद्धर्मो ऽहं पुरातनः ॥ (४७।२)

varṇāśramāstathā cāhaṃ taddharmo 'haṃ purātanaḥ ||

48.1४८.१

यमो ऽहं नियमो रुद्र व्रतानि विविधानि च । (४८।१)

yamo 'haṃ niyamo rudra vratāni vividhāni ca |

48.2४८.२

अहं सूर्यस्तथा चन्द्रो मङ्गलादीन्यहं तथा ॥ (४८।२)

ahaṃ sūryastathā candro maṅgalādīnyahaṃ tathā ||

49.1४९.१

पुरा मां गरुडः पक्षी तपसाराधयद्भुवि । (४९।१)

purā māṃ garuḍaḥ pakṣī tapasārādhayadbhuvi |

49.2४९.२

तुष्ट ऊचे वरं ब्रूहि मत्तो वव्रे वरं स तु ॥ (४९।२)

tuṣṭa ūce varaṃ brūhi matto vavre varaṃ sa tu ||

50.1५०.१

गरुड उवाच । (५०।१)

garuḍa uvāca

50.2५०.२

मम माता च विनता नागैर्दासीकृता हरे । (५०।२)

mama mātā ca vinatā nāgairdāsīkṛtā hare |

50.3५०.३

यथाहं देव ताञ्जित्वा चामृतं ह्यानयामि तत् ॥ (५०।३)

yathāhaṃ deva tāñjitvā cāmṛtaṃ hyānayāmi tat ||

51.1५१.१

दास्याद्विमोक्षयिष्यामि यथाहं वाहनस्तव । (५१।१)

dāsyādvimokṣayiṣyāmi yathāhaṃ vāhanastava |

51.2५१.२

महाबलो महावीर्यः सर्वज्ञो नागदारणः ॥ (५१।२)

mahābalo mahāvīryaḥ sarvajño nāgadāraṇaḥ ||

52.1५२.१

पुराणसंहिताकर्ता यथाहं स्यां तथा कुरु । (५२।१)

purāṇasaṃhitākartā yathāhaṃ syāṃ tathā kuru |

52.2५२.२

विष्णुरुवाच । (५२।२)

viṣṇuruvāca |

52.3५२.३

यथा त्वयोक्तं गरुड तथा सर्वं भविष्यति ॥ (५२।३)

yathā tvayoktaṃ garuḍa tathā sarvaṃ bhaviṣyati ||

53.1५३.१

नागदास्यान्मातरं त्वं विनतां मोक्षयिष्यसि । (५३।१)

nāgadāsyānmātaraṃ tvaṃ vinatāṃ mokṣayiṣyasi |

53.2५३.२

देवादीन्सकलाञ्जित्वा चामृतं ह्यानयिष्यसि ॥ (५३।२)

devādīnsakalāñjitvā cāmṛtaṃ hyānayiṣyasi ||

54.1५४.१

महाबलो वाहनस्त्वं भविष्यसि विषार्दनः । (५४।१)

mahābalo vāhanastvaṃ bhaviṣyasi viṣārdanaḥ |

54.2५४.२

पुराणं मत्प्रसादाच्च मम माहात्म्यवाचकम् ॥ (५४।२)

purāṇaṃ matprasādācca mama māhātmyavācakam ||

55.1५५.१

यदुक्तं मत्स्वरूपं च तव चाविर्भविष्यति । (५५।१)

yaduktaṃ matsvarūpaṃ ca tava cāvirbhaviṣyati |

55.2५५.२

गारुडं तव नाम्ना तल्लोके ख्यातिं गमिष्यति ॥ (५५।२)

gāruḍaṃ tava nāmnā talloke khyātiṃ gamiṣyati ||

56.1५६.१

यथाहं देवदेवानां श्रीः ख्यातो विनतासुत । (५६।१)

yathāhaṃ devadevānāṃ śrīḥ khyāto vinatāsuta |

56.2५६.२

तथा ख्यातिं पुराणेषु गारुडं गरुडैष्यति ॥ (५६।२)

tathā khyātiṃ purāṇeṣu gāruḍaṃ garuḍaiṣyati ||

57.1५७.१

यथाहं कीर्तनीयो ऽथ तथा त्वं गरुडात्मना । (५७।१)

yathāhaṃ kīrtanīyo 'tha tathā tvaṃ garuḍātmanā |

57.2५७.२

मां ध्यात्वा पक्षिमुख्येदं पुराणं गद गारुडम् ॥ (५७।२)

māṃ dhyātvā pakṣimukhyedaṃ purāṇaṃ gada gāruḍam ||

58.1५८.१

इत्युक्तो गरुडो रुद्र कश्यपायाह पृच्छते । (५८।१)

ityukto garuḍo rudra kaśyapāyāha pṛcchate |

58.2५८.२

कश्यपो गारुडं श्रुत्वा वृक्षं दग्धमजीवयत् ॥ (५८।२)

kaśyapo gāruḍaṃ śrutvā vṛkṣaṃ dagdhamajīvayat ||

59.1५९.१

स्वयं चान्यमना भूत्वा विद्ययान्यान्यजीवयत् । (५९।१)

svayaṃ cānyamanā bhūtvā vidyayānyānyajīvayat |

59.2५९.२

यक्षि ॐउंस्वाहाजापी विद्ययं गारुडी परा । (५९।२)

yakṣi oṃuṃsvāhājāpī vidyayaṃ gāruḍī parā |

59.3५९.३

गरुडोक्तं गारुडं हि शृणु रुद्र मदात्मकम् ॥ (५९।३)

garuḍoktaṃ gāruḍaṃ hi śṛṇu rudra madātmakam ||

60.1६०.१

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीगरुडमहापुराणोत्पत्तिनिरूपणं नाम द्वितीयो ऽध्यायः ॥ (६०।१)

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīgaruḍamahāpurāṇotpattinirūpaṇaṃ nāma dvitīyo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

GarPur, 1, 2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit