GarPur, 1, 116
Select a line for its word-by-word analysis.
व्रतानि व्यास वक्ष्यामि हरिर्यैः सर्वदो भवेत् । (१।२)
vratāni vyāsa vakṣyāmi hariryaiḥ sarvado bhavet |
वैश्वानरः प्रतिपदि कुबेरः पूजितो ऽर्थदः । (३।१)
vaiśvānaraḥ pratipadi kuberaḥ pūjito 'rthadaḥ |
पोष्य ब्रह्मो प्रतिपद्यर्चितः श्रिस् तथाश्विनी ॥ (३।२)
poṣya brahmo pratipadyarcitaḥ śris tathāśvinī ||
चतुर्थ्यां च चतुर्व्यूहः पञ्चम्यामर्चितो हरिः । (५।१)
caturthyāṃ ca caturvyūhaḥ pañcamyāmarcito hariḥ |
कार्तिकेयो रविः षष्ठ्यां सप्तम्यां भास्करो ऽर्थदः ॥ (५।२)
kārtikeyo raviḥ ṣaṣṭhyāṃ saptamyāṃ bhāskaro 'rthadaḥ ||
दुर्गाष्टम्यां नवम्यां च मातरो ऽथ दिशो ऽर्थदाः । (६।१)
durgāṣṭamyāṃ navamyāṃ ca mātaro 'tha diśo 'rthadāḥ |
द्वादश्यां च हरिः कामस्त्रयोदश्यां महेश्वरः । (७।१)
dvādaśyāṃ ca hariḥ kāmastrayodaśyāṃ maheśvaraḥ |
चतुर्दश्यां पञ्चदश्यां ब्रह्मा च पितरो ऽर्थदाः ॥ (७।२)
caturdaśyāṃ pañcadaśyāṃ brahmā ca pitaro 'rthadāḥ ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे तिथ्यादिव्रतवर्णनं नाम षोडशोत्तरशततमो ऽध्यायः ॥ (९।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tithyādivratavarṇanaṃ nāma ṣoḍaśottaraśatatamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.