GarPur, 1, 120
Select a line for its word-by-word analysis.
रम्भातृतीयां वक्ष्ये च सौभाग्यश्रीसुतादिदाम् । (१।२)
rambhātṛtīyāṃ vakṣye ca saubhāgyaśrīsutādidām |
माघेषु भद्रां कल्हारैर्घृताशो मण्डकप्रदः ॥ (३।२)
māgheṣu bhadrāṃ kalhārairghṛtāśo maṇḍakapradaḥ ||
गीतीमयं दन्तकाष्ठं फाल्गुने गोमतीं यजेत् । (४।१)
gītīmayaṃ dantakāṣṭhaṃ phālgune gomatīṃ yajet |
कुन्दैः कृत्वा दन्तकाष्ठं जीवाशः शष्कुलीप्रदः ॥ (४।२)
kundaiḥ kṛtvā dantakāṣṭhaṃ jīvāśaḥ śaṣkulīpradaḥ ||
दधिप्राशो दन्तकाष्ठं तगरं श्रीमुखीं यजेत् ॥ (५।२)
dadhiprāśo dantakāṣṭhaṃ tagaraṃ śrīmukhīṃ yajet ||
ज्येष्ठे नारायणीमर्चेच्छतपत्रैश्च खण्डदः । (६।२)
jyeṣṭhe nārāyaṇīmarcecchatapatraiśca khaṇḍadaḥ |
औदुम्बरं दन्तकाष्ठं तगर्याः श्रावणे श्रियम् ॥ (७।२)
audumbaraṃ dantakāṣṭhaṃ tagaryāḥ śrāvaṇe śriyam ||
दन्तकाष्ठं मल्लिकायाः क्षीरदो ह्युत्तमां यजेत् । (८।१)
dantakāṣṭhaṃ mallikāyāḥ kṣīrado hyuttamāṃ yajet |
प्राशयेन्निशि नैवेद्यैः कृसरैः कार्तिके यजेत् ॥ (९।२)
prāśayenniśi naivedyaiḥ kṛsaraiḥ kārtike yajet ||
जातीपुष्पैः पद्मजां च पञ्चगव्याशनो यजेत् । (१०।१)
jātīpuṣpaiḥ padmajāṃ ca pañcagavyāśano yajet |
घृतौदनं च वर्षान्ते सपत्नीकान्द्विजान्यजेत् ॥ (१०।२)
ghṛtaudanaṃ ca varṣānte sapatnīkāndvijānyajet ||
वस्त्रच्छत्रसुवर्णाद्यैः रात्रौ च कृतजागरः । (११।२)
vastracchatrasuvarṇādyaiḥ rātrau ca kṛtajāgaraḥ |
गीतवाद्यैर् ददत् प्रतर्गवाद्यं सर्वम् आप्नुयात् ॥ (११।३)
gītavādyair dadat pratargavādyaṃ sarvam āpnuyāt ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रम्भातृतीयाव्रतं नाम विंशत्युत्तरशततमो ऽध्यायः ॥ (१२।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rambhātṛtīyāvrataṃ nāma viṃśatyuttaraśatatamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.