GarPur, 1, 158
Select a line for its word-by-word analysis.
मूत्राघातअथातो मूत्राघातस्य निदानं शृणु सुश्रुत । (१।२)
mūtrāghātaathāto mūtrāghātasya nidānaṃ śṛṇu suśruta |
अधोमुखो ऽपि बस्तिर्हि मूत्रवाहिशिरामुखैः ॥ (२।२)
adhomukho 'pi bastirhi mūtravāhiśirāmukhaiḥ ||
पार्श्वेभ्यः पूर्यते श्लक्ष्णैः स्यन्दमानैरनारतम् । (३।१)
pārśvebhyaḥ pūryate ślakṣṇaiḥ syandamānairanāratam |
तैस्तैरेव प्रविश्यैवं दोषान् कुर्वन्ति विंशतिम् ॥ (३।२)
taistaireva praviśyaivaṃ doṣān kurvanti viṃśatim ||
मूत्राघातः प्रमेहश्च कृच्छ्रान्मर्म समाश्रयेत् । (४।१)
mūtrāghātaḥ pramehaśca kṛcchrānmarma samāśrayet |
बस्तिवङ्क्षणमेढ्रार्तियुक्तो ऽल्पाल्पं मुहुर्मुहुः ॥ (४।२)
bastivaṅkṣaṇameḍhrārtiyukto 'lpālpaṃ muhurmuhuḥ ||
मूत्राण्य् आवातजे कृच्छ्रपीत्ते पीतं सदाहरुक् । (५।१)
mūtrāṇy āvātaje kṛcchrapītte pītaṃ sadāharuk |
सपिच्छं सनिरुद्धं च सर्वैः सर्वात्मकं मलैः । (६।१)
sapicchaṃ saniruddhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ |
यदा वायुर्मुखं बस्तेर्व्यावर्त्य परिशोषयन् ॥ (६।२)
yadā vāyurmukhaṃ bastervyāvartya pariśoṣayan ||
मूत्रं सपित्तं सकफं सशुक्रं वा तदा क्रमात् । (७।१)
mūtraṃ sapittaṃ sakaphaṃ saśukraṃ vā tadā kramāt |
श्लेष्माश्रया च सर्वा स्यादथास्याः पूर्वलक्षणम् । (८।१)
śleṣmāśrayā ca sarvā syādathāsyāḥ pūrvalakṣaṇam |
बस्त्याध्मानं तदासन्नदेशो हि परितो ऽतिरुक् ॥ (८।२)
bastyādhmānaṃ tadāsannadeśo hi parito 'tiruk ||
बस्तौ च मूत्रसङ्गित्वं मूत्रकृच्छ्रं ज्वरो ऽरुचिः । (९।१)
bastau ca mūtrasaṅgitvaṃ mūtrakṛcchraṃ jvaro 'ruciḥ |
विस्तीर्णवासं मूत्रं स्यात्तथा मार्गनिरोधने । (१०।१)
vistīrṇavāsaṃ mūtraṃ syāttathā mārganirodhane |
बद्धं बद्ध्वा सुखं मेहेदच्छं गोमेदकोपमम् ॥ (१०।२)
baddhaṃ baddhvā sukhaṃ mehedacchaṃ gomedakopamam ||
तत्संक्षोभाद्भवेत्सासृङ्मांसमध्वनि रुग्भवेत् । (११।१)
tatsaṃkṣobhādbhavetsāsṛṅmāṃsamadhvani rugbhavet |
तत्र वाताभिसृत्यार्तो दन्तान् खादति वेपते ॥ (११।२)
tatra vātābhisṛtyārto dantān khādati vepate ||
सानिलं मुञ्चति शकृन्मुहुर्मेहति बिन्दुशः ॥ (१२।२)
sānilaṃ muñcati śakṛnmuhurmehati binduśaḥ ||
श्यामरूक्षाश्मरी चास्य स्याच्चिता कण्टकैरिव । (१३।१)
śyāmarūkṣāśmarī cāsya syāccitā kaṇṭakairiva |
पित्तेन दह्यते बस्तिः पच्यमान इवोष्णवान् ॥ (१३।२)
pittena dahyate bastiḥ pacyamāna ivoṣṇavān ||
भल्लातकास्थिसंस्थाना रक्ता पीता सिताश्मरी । (१४।१)
bhallātakāsthisaṃsthānā raktā pītā sitāśmarī |
बस्तिर्निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः ॥ (१४।२)
bastirnistudyata iva śleṣmaṇā śītalo guruḥ ||
अश्मरी महती श्लक्ष्णा मधुवर्णाथ वा सिता । (१५।१)
aśmarī mahatī ślakṣṇā madhuvarṇātha vā sitā |
स्थानच्युतमभुक्तं वा अण्डयोरन्तरे ऽनिलः । (१७।१)
sthānacyutamabhuktaṃ vā aṇḍayorantare 'nilaḥ |
शोषयत्युपसंगृह्य शुक्रं तच्छुक्रमश्मरी ॥ (१७।२)
śoṣayatyupasaṃgṛhya śukraṃ tacchukramaśmarī ||
बस्तिरुक्कृच्छ्रमूत्रत्वं शुक्ला श्वयथुकारिणी । (१८।१)
bastirukkṛcchramūtratvaṃ śuklā śvayathukāriṇī |
तस्यामुत्पन्नमात्रायां शुष्कमेत्य विलीयते ॥ (१८।२)
tasyāmutpannamātrāyāṃ śuṣkametya vilīyate ||
पीडिते ज्वरकासे ऽस्मिन् अश्मर्येव च शर्करा । (१९।१)
pīḍite jvarakāse 'smin aśmaryeva ca śarkarā |
असौ वा वायुना भिन्ना सा त्वस्मिन् अनुलोमगे ॥ (१९।२)
asau vā vāyunā bhinnā sā tvasmin anulomage ||
मूत्रसंधारणं कुर्यात्क्रुद्धो बस्तेर्मुखे मरुत् ॥ (२०।२)
mūtrasaṃdhāraṇaṃ kuryātkruddho bastermukhe marut ||
मूत्रसङ्गं रुजं कण्डूं कदाचिच्च सुवामतः । (२१।१)
mūtrasaṅgaṃ rujaṃ kaṇḍūṃ kadācicca suvāmataḥ |
प्रच्छाद्य बस्तिमुद्धृत्य गर्मान्तं स्थूलविप्लुताम् ॥ (२१।२)
pracchādya bastimuddhṛtya garmāntaṃ sthūlaviplutām ||
करोति तत्र रुग्दाहं स्पन्दनोद्वेष्टनानि च । (२२।१)
karoti tatra rugdāhaṃ spandanodveṣṭanāni ca |
बिन्दुशश्च प्रवर्तेत मूत्रं बस्तौ तु पीडिते ॥ (२२।२)
binduśaśca pravarteta mūtraṃ bastau tu pīḍite ||
दुस्तरो दुस्तरतरो द्वितीयः प्रबलो ऽनिलः ॥ (२३।२)
dustaro dustarataro dvitīyaḥ prabalo 'nilaḥ ||
शकृन्मार्गस्य बस्तेश्च वायुरन्तरमाश्रितः । (२४।१)
śakṛnmārgasya basteśca vāyurantaramāśritaḥ |
अष्ठीलाभं घनं ग्रन्थिं करोत्यचलमुन्नतम् ॥ (२४।२)
aṣṭhīlābhaṃ ghanaṃ granthiṃ karotyacalamunnatam ||
वाताष्ठीलेति सात्मानं विष्मूत्रानिलसर्गकृत् । (२५।१)
vātāṣṭhīleti sātmānaṃ viṣmūtrānilasargakṛt |
विगुणः कुण्डलीभूतो बस्तौ तीव्रव्यथो ऽनिलः ॥ (२५।२)
viguṇaḥ kuṇḍalībhūto bastau tīvravyatho 'nilaḥ ||
आबध्य मूत्रं भ्रमति संस्तम्भोद्वेष्टगौरवम् । (२६।१)
ābadhya mūtraṃ bhramati saṃstambhodveṣṭagauravam |
वातकुण्डलिकेत्येव मूत्रं तु विधृते ऽचिरम् । (२७।१)
vātakuṇḍaliketyeva mūtraṃ tu vidhṛte 'ciram |
न निरेति निरुद्धं वा मूत्रातीतं तदल्परुक् ॥ (२७।२)
na nireti niruddhaṃ vā mūtrātītaṃ tadalparuk ||
कुर्यात्तीव्ररुगाध्मानमशक्तिं मलसंग्रहम् । (२९।१)
kuryāttīvrarugādhmānamaśaktiṃ malasaṃgraham |
तन्मूत्रं जाठरच्छिद्रवैगुण्येनानिलेन वा ॥ (२९।२)
tanmūtraṃ jāṭharacchidravaiguṇyenānilena vā ||
आक्षिप्तमल्पमूत्रस्य वस्तौ नाभौ च वा मले । (३०।१)
ākṣiptamalpamūtrasya vastau nābhau ca vā male |
स्थित्वा प्लवेच्छनैः पश्चात्सरुजं वाथवारुजम् ॥ (३०।२)
sthitvā plavecchanaiḥ paścātsarujaṃ vāthavārujam ||
मूत्रोत्सर्गं सविच्छिन्नं तच्छ्रेयो गुरुशेफसोः । (३१।१)
mūtrotsargaṃ savicchinnaṃ tacchreyo guruśephasoḥ |
अन्तर्वस्तिमुखे तृष्णा स्थिराल्पं सहसा भवेत् ॥ (३१।२)
antarvastimukhe tṛṣṇā sthirālpaṃ sahasā bhavet ||
अश्मरीतुल्यरुग्ग्रन्थिर् मूत्रग्रन्थिः स उच्यते । (३२।१)
aśmarītulyaruggranthir mūtragranthiḥ sa ucyate |
मूत्रितस्य स्त्रियं यातो वायुना शुक्रमुद्धृतम् ॥ (३२।२)
mūtritasya striyaṃ yāto vāyunā śukramuddhṛtam ||
स्थानाच्च्युतं मूत्रयतः प्राक् पश्चाद्वा प्रवर्तते । (३३।१)
sthānāccyutaṃ mūtrayataḥ prāk paścādvā pravartate |
मूत्रस्रोतो ऽनुपर्येति संसृष्टं शकृता तदा ॥ (३४।२)
mūtrasroto 'nuparyeti saṃsṛṣṭaṃ śakṛtā tadā ||
मूत्रबिन्दुं तुल्यगन्धं स्याद्विघातं तमादिशेत् । (३५।१)
mūtrabinduṃ tulyagandhaṃ syādvighātaṃ tamādiśet |
पित्तव्यायामतीक्ष्णाम्लभोजनाध्मानकादिभिः ॥ (३५।२)
pittavyāyāmatīkṣṇāmlabhojanādhmānakādibhiḥ ||
प्रवृद्धवायुना मूत्रे वस्तिस्थे चैव दाहकृत् । (३६।१)
pravṛddhavāyunā mūtre vastisthe caiva dāhakṛt |
मूत्रं वर्तयते पूर्वं सरक्तं रक्तमेव वा ॥ (३६।२)
mūtraṃ vartayate pūrvaṃ saraktaṃ raktameva vā ||
उष्णं पुनः पुनः कृच्छ्रादुष्णवातं वदन्ति तम् । (३७।१)
uṣṇaṃ punaḥ punaḥ kṛcchrāduṣṇavātaṃ vadanti tam |
रूक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ ॥ (३७।२)
rūkṣasya klāntadehasya bastisthau pittamārutau ||
मूत्रक्षयं सरुग्दाहं जनयेतां तदाह्वयम् । (३८।१)
mūtrakṣayaṃ sarugdāhaṃ janayetāṃ tadāhvayam |
पित्तं कफो द्वावपि वा संहन्येते ऽनिलेन चेत् ॥ (३८।२)
pittaṃ kapho dvāvapi vā saṃhanyete 'nilena cet ||
कृच्छ्रान्मूत्रं तदा पीतं रक्तं श्वेतं घनं सृजेत् । (३९।१)
kṛcchrānmūtraṃ tadā pītaṃ raktaṃ śvetaṃ ghanaṃ sṛjet |
सदाहं रोचनाशङ्खचूर्णवर्णं भवेच्च तत् ॥ (३९।२)
sadāhaṃ rocanāśaṅkhacūrṇavarṇaṃ bhavecca tat ||
शुष्कं समस्तवर्णं वा मूत्रसादं वदन्ति तम् । (४०।१)
śuṣkaṃ samastavarṇaṃ vā mūtrasādaṃ vadanti tam |
इति विस्तारतः प्रोक्ता रोगा मूत्रप्रवर्तिताः ॥ (४०।२)
iti vistārataḥ proktā rogā mūtrapravartitāḥ ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मूत्राघातमूत्राकृच्छनिदानं नामाष्टपञ्चाशदुत्तरशततमो ऽध्यायः ॥ (४१।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mūtrāghātamūtrākṛcchanidānaṃ nāmāṣṭapañcāśaduttaraśatatamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.