गरुडपुराणGaruḍapurāṇa

GarPur, 1, 11

11 of 166 · 89 verses

Select a line for its word-by-word analysis.

1.1१.१

हरिरुवाच । (१।१)

hariruvāca |

1.2१.२

नवव्यूहार्चनं वक्ष्ये यदुक्तं कश्यपाय हि । (१।२)

navavyūhārcanaṃ vakṣye yaduktaṃ kaśyapāya hi |

1.3१.३

जीवमुत्क्षिप्य मूर्धन्यं नाभ्यां व्योम्नि निवेशयेत् ॥ (१।३)

jīvamutkṣipya mūrdhanyaṃ nābhyāṃ vyomni niveśayet ||

2.1२.१

ततोरम् इति बीजेन दहेद्भूतात्मकं वपुः । (२।१)

tatoram iti bījena dahedbhūtātmakaṃ vapuḥ |

2.2२.२

यमित्यनेन बीजेन तच्च सर्वं विनाशयेत् ॥ (२।२)

yamityanena bījena tacca sarvaṃ vināśayet ||

3.1३.१

लमित्यनेन बीजेन प्लावयेत्सचराचरम् । (३।१)

lamityanena bījena plāvayetsacarācaram |

3.2३.२

वमित्यनेन बीजेन चिन्तयेदमृतं ततः ॥ (३।२)

vamityanena bījena cintayedamṛtaṃ tataḥ ||

4.1४.१

ततो बुद्बुदमध्ये तु पीतवासाश्चतुर्भुजः । (४।१)

tato budbudamadhye tu pītavāsāścaturbhujaḥ |

4.2४.२

अहं मतस्तथात्मानं ध्यानेन परिचिन्तयेत् ॥ (४।२)

ahaṃ matastathātmānaṃ dhyānena paricintayet ||

5.1५.१

मन्त्रन्यासं ततः कुर्यात्त्रिविधं करदेहयोः । (५।१)

mantranyāsaṃ tataḥ kuryāttrividhaṃ karadehayoḥ |

5.2५.२

द्वादशाक्षरबीजेन उक्तबीजैरनन्तरम् ॥ (५।२)

dvādaśākṣarabījena uktabījairanantaram ||

6.1६.१

षडङ्गेन ततः कुर्यात्साक्षाद्येन हरिर्भवेत् । (६।१)

ṣaḍaṅgena tataḥ kuryātsākṣādyena harirbhavet |

6.2६.२

दक्षिणाङ्गुष्ठमारभ्य मध्याङ्गुष्ठं दले न्यसेत् ॥ (६।२)

dakṣiṇāṅguṣṭhamārabhya madhyāṅguṣṭhaṃ dale nyaset ||

7.1७.१

मध्ये बीजद्वयं न्यस्य न्यसेदङ्गे ततः पुनः । (७।१)

madhye bījadvayaṃ nyasya nyasedaṅge tataḥ punaḥ |

7.2७.२

हृच्छिरसि शिखावर्मवक्क्राक्ष्युदहपृष्ठतः ॥ (७।२)

hṛcchirasi śikhāvarmavakkrākṣyudahapṛṣṭhataḥ ||

8.1८.१

बाह्वोश्च करयोर्जान्वोः पादयोश्चापि विन्यसेत् । (८।१)

bāhvośca karayorjānvoḥ pādayoścāpi vinyaset |

8.2८.२

पद्माकारौ करौ कृत्वा मध्ये ऽङ्गुष्ठं निवेशयेत् ॥ (८।२)

padmākārau karau kṛtvā madhye 'ṅguṣṭhaṃ niveśayet ||

9.1९.१

चिन्तयेत्तत्र सर्वेशं परं तत्त्वमनामयम् । (९।१)

cintayettatra sarveśaṃ paraṃ tattvamanāmayam |

9.2९.२

क्रमाच्चैतानि बीजानि तर्जन्यादिषु विन्यसेत् ॥ (९।२)

kramāccaitāni bījāni tarjanyādiṣu vinyaset ||

10.1१०.१

ततो मूर्धाक्षिवक्त्रेषु कण्ठे च हृदये तथा । (१०।१)

tato mūrdhākṣivaktreṣu kaṇṭhe ca hṛdaye tathā |

10.2१०.२

नाभौ गुह्ये तथा जान्वोः पादयोर्विन्यसेत्क्रमात् ॥ (१०।२)

nābhau guhye tathā jānvoḥ pādayorvinyasetkramāt ||

11.1११.१

पाण्योः षडङ्गबीजानि न्यस्य काये ततो न्यसेत् । (११।१)

pāṇyoḥ ṣaḍaṅgabījāni nyasya kāye tato nyaset |

11.2११.२

अङ्गुष्ठादिकनिष्ठान्तं विन्यसेद् बीजपञ्चकम् ॥ (११।२)

aṅguṣṭhādikaniṣṭhāntaṃ vinyased bījapañcakam ||

12.1१२.१

करमध्ये नेत्रबीजम् अङ्गन्यासो ऽप्ययं क्रमः । (१२।१)

karamadhye netrabījam aṅganyāso 'pyayaṃ kramaḥ |

12.2१२.२

हृदये हृदयं न्यस्य शिरः शिरसि विन्यसेत् ॥ (१२।२)

hṛdaye hṛdayaṃ nyasya śiraḥ śirasi vinyaset ||

13.1१३.१

शिखायां तु शिखां न्यस्य कवचं सर्वतस्तनौ । (१३।१)

śikhāyāṃ tu śikhāṃ nyasya kavacaṃ sarvatastanau |

13.2१३.२

नेत्रं नेत्रे विधातव्यम् अस्त्रं च करयोर्द्वयोः ॥ (१३।२)

netraṃ netre vidhātavyam astraṃ ca karayordvayoḥ ||

14.1१४.१

तेनैव च दिशो बद्धा पूजाविधिमथाचरेत् । (१४।१)

tenaiva ca diśo baddhā pūjāvidhimathācaret |

14.2१४.२

हृदये चिन्तयेत्पूर्वं योगपीठं समाहितः ॥ (१४।२)

hṛdaye cintayetpūrvaṃ yogapīṭhaṃ samāhitaḥ ||

15.1१५.१

धर्मज्ञानं च वैराग्यमैश्वर्यं च यथाक्रमम् । (१५।१)

dharmajñānaṃ ca vairāgyamaiśvaryaṃ ca yathākramam |

15.2१५.२

आग्नेयादौ च पूर्वादावधर्मादींश्च विन्यसेत् ॥ (१५।२)

āgneyādau ca pūrvādāvadharmādīṃśca vinyaset ||

16.1१६.१

एभिः परिच्छन्नतनुं पीठभूतं तदात्मकम् । (१६।१)

ebhiḥ paricchannatanuṃ pīṭhabhūtaṃ tadātmakam |

16.2१६.२

अनन्तं विन्यसेत् पश्चात् पूर्वकायोन्नतं स्थितम् ॥ (१६।२)

anantaṃ vinyaset paścāt pūrvakāyonnataṃ sthitam ||

17.1१७.१

ततो विद्यात्सरोजातं दलाष्टसमदिग्दलम् । (१७।१)

tato vidyātsarojātaṃ dalāṣṭasamadigdalam |

17.2१७.२

सिताब्जं शतपत्राढ्यं विप्रकीर्णोर्धकर्णिकम् ॥ (१७।२)

sitābjaṃ śatapatrāḍhyaṃ viprakīrṇordhakarṇikam ||

18.1१८.१

ध्यात्वा वेदादिना पश्चात् सूर्यसोमानलात्मनाम् । (१८।१)

dhyātvā vedādinā paścāt sūryasomānalātmanām |

18.2१८.२

मण्डलानि क्रमादेवमुपर्युपरि चिन्तयेत् ॥ (१८।२)

maṇḍalāni kramādevamuparyupari cintayet ||

19.1१९.१

ततः पूर्वादिदिक्संस्थाः शक्तीः केशवगोचराः । (१९।१)

tataḥ pūrvādidiksaṃsthāḥ śaktīḥ keśavagocarāḥ |

19.2१९.२

विमलाद्या न्यसेदष्टौ नवमीं कर्णिकागताम् ॥ (१९।२)

vimalādyā nyasedaṣṭau navamīṃ karṇikāgatām ||

20.1२०.१

एवं ध्यात्वा समभ्यर्च्य योगपीठमनन्तरम् । (२०।१)

evaṃ dhyātvā samabhyarcya yogapīṭhamanantaram |

20.2२०.२

मनसावाह्य तत्रेशं हरिं शार्ङ्गं न्यसेत्पुनः ॥ (२०।२)

manasāvāhya tatreśaṃ hariṃ śārṅgaṃ nyasetpunaḥ ||

21.1२१.१

हृदयादीनि पूर्वादिचतुर्दिग्दलयोगतः । (२१।१)

hṛdayādīni pūrvādicaturdigdalayogataḥ |

21.2२१.२

मध्ये नेत्रं तु कोणेषु अस्त्रमन्त्रं न्यसेत्ततः ॥ (२१।२)

madhye netraṃ tu koṇeṣu astramantraṃ nyasettataḥ ||

22.1२२.१

सङ्कर्षणादिबीजानि पूर्वादिक्रमयोगतः । (२२।१)

saṅkarṣaṇādibījāni pūrvādikramayogataḥ |

22.2२२.२

द्वारि पूर्वे परे चैव वैनतेयं तु विन्यसेत् ॥ (२२।२)

dvāri pūrve pare caiva vainateyaṃ tu vinyaset ||

23.1२३.१

सुदर्शनं सहस्रारं दक्षिणे द्वारि विन्यसेत् । (२३।१)

sudarśanaṃ sahasrāraṃ dakṣiṇe dvāri vinyaset |

23.2२३.२

श्रियं दक्षिणतो न्यस्य लक्ष्मीमुत्तरतस्तथा ॥ (२३।२)

śriyaṃ dakṣiṇato nyasya lakṣmīmuttaratastathā ||

24.1२४.१

द्वार्युत्तरे गदां न्यस्य शङ्खं कोणेषु विन्यसेत् । (२४।१)

dvāryuttare gadāṃ nyasya śaṅkhaṃ koṇeṣu vinyaset |

24.2२४.२

देवदक्षिणतः शार्ङ्गं वामे चैव सुधीर्न्यसेत् ॥ (२४।२)

devadakṣiṇataḥ śārṅgaṃ vāme caiva sudhīrnyaset ||

25.1२५.१

तद्वत् खड्गं तथा चक्रं न्यसेत्पार्श्वद्वयोर्द्वयम् । (२५।१)

tadvat khaḍgaṃ tathā cakraṃ nyasetpārśvadvayordvayam |

25.2२५.२

ततो ऽन्तर्लोकपालांश्च स्वदिग्भेदेन विन्यसेत् ॥ (२५।२)

tato 'ntarlokapālāṃśca svadigbhedena vinyaset ||

26.1२६.१

वज्रादीन्यायुधान्येव तथैव विनिवेशयेत् । (२६।१)

vajrādīnyāyudhānyeva tathaiva viniveśayet |

26.2२६.२

ऊर्ध्वं ब्रह्म तथानन्तमधश्च परिचिन्तयेत् ॥ (२६।२)

ūrdhvaṃ brahma tathānantamadhaśca paricintayet ||

27.1२७.१

सर्वं ध्यात्वेति सम्पूज्य मुद्राः संदर्शयेत्ततः । (२७।१)

sarvaṃ dhyātveti sampūjya mudrāḥ saṃdarśayettataḥ |

27.2२७.२

अञ्जलिः प्रथमा मुद्रा क्षिप्रं देवप्रसाधनी ॥ (२७।२)

añjaliḥ prathamā mudrā kṣipraṃ devaprasādhanī ||

28.1२८.१

वन्दनी हृदयासक्तात्सार्धं दक्षिणतोन्नता । (२८।१)

vandanī hṛdayāsaktātsārdhaṃ dakṣiṇatonnatā |

28.2२८.२

ऊर्धाङ्गुण्ठो वाममुष्टिर्दक्षिणाङ्गुष्ठबन्धनः ॥ (२८।२)

ūrdhāṅguṇṭho vāmamuṣṭirdakṣiṇāṅguṣṭhabandhanaḥ ||

29.1२९.१

सव्यस्य तस्य चाङ्गुष्ठो यः स उद्धः प्रकीर्तितः । (२९।१)

savyasya tasya cāṅguṣṭho yaḥ sa uddhaḥ prakīrtitaḥ |

29.2२९.२

तिस्रः साधारणा ह्येता मूर्तिभेदेन कल्पिताः ॥ (२९।२)

tisraḥ sādhāraṇā hyetā mūrtibhedena kalpitāḥ ||

30.1३०.१

कनिष्ठादिप्रमोकेण अष्टौ मुद्रा यथाक्रमम् । (३०।१)

kaniṣṭhādipramokeṇa aṣṭau mudrā yathākramam |

30.2३०.२

अष्टानां पूर्वबीजानां क्रमशस्त्ववधारयेत् ॥ (३०।२)

aṣṭānāṃ pūrvabījānāṃ kramaśastvavadhārayet ||

31.1३१.१

अङ्गुष्ठेन कनिष्ठान्तं नामयित्वाङ्गुलित्रयम् । (३१।१)

aṅguṣṭhena kaniṣṭhāntaṃ nāmayitvāṅgulitrayam |

31.2३१.२

मुद्रेयं नरसिंहस्य न्युब्जं कृत्वा करद्वयम् ॥ (३१।२)

mudreyaṃ narasiṃhasya nyubjaṃ kṛtvā karadvayam ||

32.1३२.१

सव्यहस्तं तथोत्तानं कृत्वोर्ध्वं भ्रामयेच्छनैः । (३२।१)

savyahastaṃ tathottānaṃ kṛtvordhvaṃ bhrāmayecchanaiḥ |

32.2३२.२

नवमीयं स्मृता मुद्रा वराहाभिमता सदा ॥ (३२।२)

navamīyaṃ smṛtā mudrā varāhābhimatā sadā ||

33.1३३.१

मुष्टिद्वयमथोत्तानम् ऋज्वैकैकेन मोचयेत् । (३३।१)

muṣṭidvayamathottānam ṛjvaikaikena mocayet |

33.2३३.२

उत्कुञ्चयेत् सर्वमुक्ता अङ्गमुद्रेयमुच्यते ॥ (३३।२)

utkuñcayet sarvamuktā aṅgamudreyamucyate ||

34.1३४.१

मुष्टिद्वयमथो बद्धा एवमेवानुपूर्वशः । (३४।१)

muṣṭidvayamatho baddhā evamevānupūrvaśaḥ |

34.2३४.२

दशानां लोकपालानां मुद्राश्च क्रमयोगतः ॥ (३४।२)

daśānāṃ lokapālānāṃ mudrāśca kramayogataḥ ||

35.1३५.१

सुरमाद्यं द्वितीयं च उपान्त्यं चान्त्यमेव च । (३५।१)

suramādyaṃ dvitīyaṃ ca upāntyaṃ cāntyameva ca |

35.2३५.२

वासुदेवो बलः कामो ह्यनिरुद्धो यथाक्रमम् ॥ (३५।२)

vāsudevo balaḥ kāmo hyaniruddho yathākramam ||

36.1३६.१

प्रणवस्तत्सदित्येतद् हुं क्षैं भूरिति मन्त्रकाः । (३६।१)

praṇavastatsadityetad huṃ kṣaiṃ bhūriti mantrakāḥ |

36.2३६.२

नारायणस्तथा ब्रह्मा विष्णुः सिंहो वराहराट् ॥ (३६।२)

nārāyaṇastathā brahmā viṣṇuḥ siṃho varāharāṭ ||

37.1३७.१

सितारुणहरिद्राभा नीलश्यामलोहिताः । (३७।१)

sitāruṇaharidrābhā nīlaśyāmalohitāḥ |

37.2३७.२

मेघाग्निमदुपिङ्गाभा वर्णतो नवनामकाः ॥ (३७।२)

meghāgnimadupiṅgābhā varṇato navanāmakāḥ ||

38.1३८.१

कं टं पं शं गरुत्मान्स्याज्जं खं वं च सुदर्शनम् । (३८।१)

kaṃ ṭaṃ paṃ śaṃ garutmānsyājjaṃ khaṃ vaṃ ca sudarśanam |

38.2३८.२

षं चं फं षं गदादेवी वं लं मं क्षं च शङ्खकम् ॥ (३८।२)

ṣaṃ caṃ phaṃ ṣaṃ gadādevī vaṃ laṃ maṃ kṣaṃ ca śaṅkhakam ||

39.1३९.१

घं ढं भं हं भवेच्छ्रीश्च गं जं वं शं च पुष्टिका । (३९।१)

ghaṃ ḍhaṃ bhaṃ haṃ bhavecchrīśca gaṃ jaṃ vaṃ śaṃ ca puṣṭikā |

39.2३९.२

घं वं च वनमाला स्याच्छ्री वत्सं दं सं भवेत् ॥ (३९।२)

ghaṃ vaṃ ca vanamālā syācchrī vatsaṃ daṃ saṃ bhavet ||

40.1४०.१

छं डं पं यं कौस्तुभः प्रोक्तश्चानन्तो ह्यहमेव च । (४०।१)

chaṃ ḍaṃ paṃ yaṃ kaustubhaḥ proktaścānanto hyahameva ca |

40.2४०.२

इत्यङ्गानियथायोगं देवदेवस्य वै दशा ॥ (४०।२)

ityaṅgāniyathāyogaṃ devadevasya vai daśā ||

41.1४१.१

गरुडो ऽम्बुजसंकाशो गदा चैवासिताकृतिः । (४१।१)

garuḍo 'mbujasaṃkāśo gadā caivāsitākṛtiḥ |

41.2४१.२

पुष्टिः शिरीषपुष्पाभा लक्ष्मीः काञ्चनसन्निभा ॥ (४१।२)

puṣṭiḥ śirīṣapuṣpābhā lakṣmīḥ kāñcanasannibhā ||

42.1४२.१

पूर्णचन्द्रनिभः शङ्खः कौस्तुभस्त्वरुणद्युतिः । (४२।१)

pūrṇacandranibhaḥ śaṅkhaḥ kaustubhastvaruṇadyutiḥ |

42.2४२.२

चक्रं सूर्यसहस्राभं श्रीवत्सः कुन्दसन्निभः ॥ (४२।२)

cakraṃ sūryasahasrābhaṃ śrīvatsaḥ kundasannibhaḥ ||

43.1४३.१

पञ्चवर्णनिभा माला ह्यनन्तो मेघसन्निभः । (४३।१)

pañcavarṇanibhā mālā hyananto meghasannibhaḥ |

43.2४३.२

विद्युद्रूपाणि चास्त्राणि यानि नोक्तानि वर्णतः ॥ (४३।२)

vidyudrūpāṇi cāstrāṇi yāni noktāni varṇataḥ ||

44.1४४.१

अर्घ्यपाद्यादि वै दद्यात्पुण्डरीकाक्षविद्यया ॥ (४४।१)

arghyapādyādi vai dadyātpuṇḍarīkākṣavidyayā ||

45.1४५.१

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नवव्यूहार्चनं नामैकादशो ऽध्यायः ॥ (४५।१)

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe navavyūhārcanaṃ nāmaikādaśo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

GarPur, 1, 11

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit